________________
॥८३॥
(मलय०)-उक्तशेषेषु विकल्पेषु द्विधा प्ररूपणा कर्तव्या । तद्यथा-सादिरध्रुवश्च । तत्र चतुर्णां घातिकर्मणां उत्कृष्टानुत्कृष्टजघन्येषु कर्मप्रकृतिः | जघन्यः सादिरध्रुवश्च भावित एव, उत्कृष्टः कदाचिन्मिथ्यादृष्टेर्भवति, अन्यदा तु तस्याप्यजघन्यः, अत एतौ साद्यध्रुवौ । शेषाणां चतुर्णामघातिकर्मणां जघन्याजघन्योत्कृष्टेषु मध्ये उत्कृष्टो भावित एव, जघन्यः सूक्ष्मस्यापर्याप्तस्यैकेन्द्रियस्य हतप्रभूतानुभागसत्कर्मणो | लभ्यते, नान्यस्य । प्रभूतानुभागसत्कर्मघाताभावे तु तस्याप्यजघन्यः, तत एतावपि साद्यध्रुवौ । एता मूलप्रकृतीनां साद्यनादिप्ररूपणा, सम्प्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणार्थमाह- 'अह' इत्यादि । उत्तर सूत्तरप्रकृतिषु मध्ये सप्तदशानां कर्मणामनन्तानुबन्धिचतुष्टयसंज्वलनचतुष्टयनव नोकपायलक्षणानामजघन्योऽनुभागसंक्रमचतुर्धा । तद्यथा-सादिरनादिर्भुवोऽध्रुवश्च । तथाहि एतेषामनन्तानुबन्धिवर्जानां त्रयोदशकर्मणां स्वस्वक्षयपर्यवसानावसरे जघन्यस्थितिसंक्रमकाले जघन्योऽनुभागसंक्रमः प्राप्यते । अनन्तानुबन्धिनां पुनरुद्वलनासंक्रमेणोद्वल्य भृयोsपि मिथ्यात्वप्रत्ययतो बद्धानां बन्धावलिकायामतीतायां द्वितीयावलिकायाः प्रथमसमये जघन्योऽनुभागसंक्रमः । एतदन्यः पुनः सर्वोऽप्येतासां सप्तदशप्रकृतीनामजघन्यः । स चोपशमश्रेण्यामुपशान्तानामेतासां न भवति, ततः प्रतिपाते च | पुनर्भवति, ततोऽसौ सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । अध्रुवध्रुवौ भव्याभव्यापेक्षया । तथा पञ्चविधज्ञानावरणस्त्यानार्द्धत्रिकवर्जपइदर्शनावरणपञ्चविधान्तरायलक्षणानां पोडशकर्मणामजघन्योऽनुभाग संक्रमस्त्रिविकल्पः - त्रिप्रकारः, तद्यथा - अनादिरध्रुवो ध्रुवश्च । तथाहिएतेषां पोडशकर्मणां जघन्यानुभागसंक्रमः क्षीणकपायस्य स्वगुणस्थानकस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य प्राप्यते । ततोऽन्यः सर्वोऽप्यजघन्यः, तस्य चादिर्न विद्यते इत्यनादिः, अध्रुवधुवौ भव्याभव्यापेक्षया ।। ५० ।।
॥ ८३ ॥
(उ०)–मूलप्रकृतिषूक्तशेषा विकल्पा द्विधा प्ररूपणीयाः, तद्यथा - सादयोऽध्रुवाच । तत्र चतुर्णां घातिकर्मणामुत्कृष्टानुत्कृष्टजघन्येषु
Dat
संक्रमकरणे अनुभागसंक्रमः ।