________________
acaraat
| जघन्यः सादिरध्रुवश्च भावित एव । उत्कृष्टो मिथ्यादृष्टेः प्रतिनियतकाल एव भवति, अन्यदा तु तस्याप्यनुत्कृष्ट इत्येतौ साद्यध्रुवौ । | शेषाणां चतुर्णामघातिकर्मणां जघन्याजघन्योत्कृष्टेषु मध्ये उत्कृष्टो भावित एव । जघन्यः सूक्ष्मस्यापर्याप्तस्यैकेन्द्रियस्य हतप्रभूतानुभागसत्कर्मणो लभ्यते, नान्यस्य । प्रभृतानुभागसत्कर्मघाताभावे तु तस्याप्यजघन्यः, किं पुनरन्यस्येत्येतावपि साद्यध्रुवौ । कृता मूलप्रकृतीनां साद्यनादिप्ररूपणा । सम्प्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणामाह-'अह' इत्यादि । अथोत्तरात्तरप्रकृतिषु मध्ये सप्तदशानां प्रकृतीनामनन्तानुबन्धिचतुष्टयसंज्वलनचतुष्टयनोकपायनवकलक्षणानामजघन्योऽनुभागसंक्रमश्चतुर्धा साद्यनादिधुवाधुवभेदात् । तथाहि एतासामनन्तानुबन्धिवर्जानां त्रयोदशानां स्वस्वक्षयपर्यवसानावसरे जघन्यस्थितिसंक्रमकाले जघन्यानुभागसंक्रमः प्राप्यते । अनन्तानुबन्धिनां तूलनासंक्रमेणोद्वल्य भूयोऽपि भिथ्यात्वप्रत्ययतो बद्धानां बन्धावलिकातिक्रमे द्वितीयावलिकाद्यसमये जघन्यानुभाग संक्रमो | लभ्यते । एतदन्यस्तु सर्वोऽप्येतासां सप्तदशप्रकृतीनामजघन्यः, स चोपशमश्रेण्यामुपशान्तानामेतासां न भवति, ततः प्रतिपाते च भवतीति सादिः । तत्स्थानमप्राप्तस्यानादिः । अध्रुवध्रुवौ भव्याभव्यापेक्षया । तथा ज्ञानावरणपञ्चकस्त्यानर्द्धित्रिका र्जदर्शनावरणषट्कान्त| रायपञ्चकलक्षणानां षोडशप्रकृतीनामजघन्यानुभागसंक्रमस्त्रिविकल्पः - त्रिप्रकारः - अनादिरध्रुवो ध्रुवश्चेति । तथाहि एतासां पोडशप्रकृ| तीनां जघन्यानुभाग संक्रमः क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य प्राप्यते, ततोऽन्यः सर्वोऽप्यजघन्यः, तस्य चादिर्नास्तीत्यनादिः । अध्रुवाभ्रुवौ प्राग्वत् ॥५०॥
| तिविहो छत्तीसाए णुकोसोऽह णवगस्स य चउद्धा । एयासिं सेसा सेसगाण सव्वे य दुविगप्पा ॥ ५१ ॥ ( ० ) - छत्तीसाए कम्मपगडीणं अणुक्कसो अणुभागसंकमो अणादिधुवअधुव इति तिविगप्पो । के ते कम्हा