________________
| विशेषग्रहणात्मको बोधो ज्ञानं, तदात्रियते आच्छाद्यतेऽनेनेति ज्ञानावरणम् । सामान्यग्रहणात्मको बोधो दर्शनं, तदावियतेऽनेनेति | दर्शनावरणम् । वेद्यते आह्लादादिरूपेण यत्तद्वेदनीयम् । यद्यपि सर्व कर्म वेद्यते तथापि पङ्कजादिपदवद्वेदनीयपदस्य रूदिविषयत्वात्सातासातरूपमेव कर्म वेदनीयमुच्यते, न शेषम् । मोहयति सदसद्विवेकविकलं करोत्यात्मानमिति मोहनीयं, 'कृद् बहुल मिति (सि० ५-१-१, २) कर्त्तर्यनीयः । एत्यागच्छति प्रतिबन्धकतां कुगतिनिर्यियासोर्जन्तोरित्यायुः, यद्वा समन्तादेति गच्छति भवान्तरसक्रान्तौ जन्तूनां विपाकोदयमित्यायुः, उभयत्राप्यौणादिक उस् प्रत्ययः। नामयति गत्यादिपर्यायानुभवनं प्रति प्रवणयति जीवमिति | नाम । गूयते शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात्तद्गोत्रमुच्चनीचकुलोत्पत्यभिव्यङ्गयः पर्यायविशेषः, तद्विपाकवेद्यं कर्मापि गोत्रम् । यद्वा गूयते शब्द्यते उच्चावचैःशब्दैरात्मा यसात्तद्गोत्रम् । जीवं दानादिकं चान्तरा व्यवधानापादनायैति गच्छतीत्यन्तरायम् ।
पश्च नव द्वे अष्टाविंशतिश्चतस्रो द्विचत्वारिंशत् द्वे पञ्च च यथाक्रममुत्तरमकृतयः । तत्र मतिश्रुतावधिमनःपर्यायकेवलज्ञानावरSणभेदात् पञ्च ज्ञानावरणोत्तरप्रकृतयः । मतिश्रुतादिस्वरूपं च सुव्यक्तम् ।
चक्षुर्दर्शनावरणावधिदानावयाचक्षुर्दर्शनावरणावधिदर्शनावरणकेवलदर्शनावरणनिद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानर्द्धिभेदानवदर्शनावरणोत्तरप्रकृतयः । तत्र चक्षुषा दर्शनं चक्षुर्दर्शनं तदावरणं चक्षुर्दर्शनावरणम् । शेषेन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनं तदावरणमचक्षुर्दर्शनावरणम् । अवधिरेव दर्शनमवधिदर्शनं तदावरणमवधिदर्शनावरणम् । केवलमेव दर्शनं तदावरणं केवलदर्शनावरणम् । 'द्रा कुत्सायां'नियतं द्राति अविस्पष्टतया कुत्सितत्वं गच्छति चैतन्यं यस्यां स्वापावस्थायां सा निद्रा नखच्छोटिकामात्रसाध्यप्रबोधस्वापावस्थेत्यर्थः । निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा, मध्यमपदलोपी समासः,तस्यां ह्यत्यन्तमस्फुटीभूतं चैतन्यं बहुभिर्यत्नः प्रबोध
REASORREDDY