________________
कर्मप्रकृतिः
तबन्धसंक्रमादिकारणभूतं करणानां वीर्यविशेषरूपाणामष्टकं करणाष्टकं बन्धनादि वक्ष्यमाणम् । तथा कर्मपुद्गलानां यथास्थितिबद्धा-मङ्गलादि॥३॥ नामबाधाकालक्षयेणापवर्तनादिकरणविशेषतो वा उदयसमयप्राप्तानामनुभवनमुदयः। तेषामेव कर्मपुद्गलानां बन्धसंक्रमाम्यां लब्धा- प्रति
| त्मलाभानां निर्जरणसंक्रमकृतस्वरूपप्रच्युत्यभावे सति सद्भावः सत्ता । इह करणाष्टकोदयसत्ता अभिधेयाः । तत्परिज्ञानं श्रोतृणाS) मनन्तरं प्रयोजनं, आचार्यस्य त्वनन्तरं प्रयोजनं परानुग्रहः । परम्पराप्रयोजनं तूभयोरपि निःश्रेयसावाप्तिः। संबन्धस्तूपायोपेयभावल-1 | क्षणः । तथाहि-वचनरूपापन्न प्रकरणमुपायः, तत्परिज्ञानाधु (नं चो) पेयमिति ॥१॥
(३-उपा०)-सिद्धं वन्दित्वेति क्रियायोगः। स च नामतोऽपि कश्चिद्भवतीति तद्वयवच्छेदार्थ विशेषणमाह-निर्धीतसर्वकर्ममलं' | नितरामपुनर्भावेन धौतो ज्ञानदर्शनचारित्रसलिलेन प्रक्षालितः सर्व एव कर्ममलो येन स तथा तम्। विशेष्यमाह-'सिद्धार्थसुतं सिद्धा
नरेन्द्रापत्यं वर्द्धमानमित्यर्थः । यद्वा सिद्धमित्येव विशेष्यं, सिद्धत्थसुअमिति विशेषणं, तत्र च सिद्धार्थ सिद्धप्रयोजनं संसारनिस्ताK/ रकरणेन श्रुतं प्रवचनं यस्येत्यर्थाद्वचनातिशयो लभ्यते । स्वकीयानन्तज्ञानाकलितभावावबोधात्सिद्धार्थाः सिद्धप्रयोजनाः सुता इव ||
सुताः शिष्या गणधरादयो यस्य स तथा तमित्यर्थादावृत्त्या ज्ञानातिशयो लभ्यते । सिद्धार्थ इति भावप्रधाननिर्देशादमरनरेन्द्रादिपू-12 जार्हत्वगुणेन सिद्धार्थतया श्रुतं प्रसिद्धमित्याच्चावृत्या पूजातिशयो लभ्यते । अपायापगमातिशयस्तु निधीतसर्वकर्ममलमित्यनेनावेदित | एवेति भगवतोऽतिशयचतुष्टयं निष्टङ्कितं भवति । तमित्थंभूतं वन्दित्वा 'वक्ष्यामि' कथयिष्यामि कर्माष्टकस्य बन्धसत्रमादिहेतुभूतं | करणाष्टकमुदयसत्ते च । तत्र कर्माष्टकस्वरूपमिह बहूपयोगीति सप्रभेदं पञ्चसङ्ग्रहानुसारेण लिख्यते
ज्ञानावरणदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाख्याः कर्मणोऽष्टौ मूलप्रकृतयः। तत्र सामान्यविशेषात्मके वस्तुनि ||