________________
कम्मं वुश्चति । पते दोवि मूलुतग्पतिहिनिअणुभागपदेसतया भिषणा मादियादिपरूवया जगणुक्कोममामिनपावणया अद्विगंत| चा उचार भण्णमाणा । एवं उद्दिष्टाणि करण उदयसंताणि ॥ १ ॥ | (२-मल०)-'सिद्धमि'ति-इह पूर्वाधनेष्टदेवतानमस्कारस्याभिधानं, उत्तरार्धेन तु प्रयोजनादीनाम् । तत्र सितं बद्धं ध्मानं भस्मीकतमष्टप्रकारं कर्म येन स सिद्धः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, यथा अवन्तः सीदन्त्यस्यामिति 'सी'त्यत्र । तं 'वन्दित्वे ति क्रियायोगः । स च नामतोऽपि · कश्चिद्भवति, विद्यासिद्धादिवा सिद्ध इति लोके प्रतीतस्ततस्तद्वयवच्छेदार्थ यथोक्तान्वर्थसूचकमेव विशेषणमाह-'निर्धीतसर्वकर्ममलं', नितरामपुनर्भावेन धौतः सम्यग्दर्शनज्ञानचारित्रतपःसलिलप्रभावेणापगमितः मर्व एव कर्मवाष्टप्रकारं जीवमालिन्यहेतुत्वात् मल इव मलो येन स निधातमर्वकर्ममलः (तं )। अनेनानादिशुद्धपुरुषप्रवादप्रतिक्षेप आवेदितो द्रष्टव्यः । विशेष्यमाह-'सिद्धार्थसुतं' सिद्धार्थस्य सिद्धार्थनरेन्द्रस्य सुतमपत्यं वर्धमानस्वामिनमित्यर्थः । अनेन भगवत उत्तम
जात्यैश्वर्यादिगुणसंपत्प्रकर्षमाह । अथवा 'सिद्धमिति विशेष्यं, 'सिद्धत्थसुयमिति विशेषणम् । तत्र सिद्धार्थ सिद्धप्रयोजनं संसारान्नि-| पिस्तारणस्य कृतत्वात् श्रुतं द्वादशाङ्गं यस्याभृत् स सिद्धार्थश्रुतस्तम् । अनेन श्रुतस्य संमारनिस्तारणं प्रत्यविकलं मामथ्यमावेद्यते ।
यद्वा सिद्धार्थाः सिद्धप्रयोजना मोक्षप्राप्तिभावात् सुता इव सुताः शिष्या गणधरादयो यस्य स सिद्धार्थसुतस्तम् । अनेन भगवतः १६ संततेरपि विशिष्टफलातिशयभाक्त्वमावेदयति । अत एव च भगवान् प्रेक्षावतां प्रणामाहः । तमित्थंभृतं वन्दित्वा । किमित्याह
'वक्ष्यामि' प्रतिपादयिष्यामि । कर्माष्टकस्य बन्धसंक्रमादिहेतुभूतं 'करणाष्टकं 'उदयसत्ते' च । तत्र कर्माष्टकं ज्ञानावरणदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायरूपम् । एतच्चान्यत्र पञ्चसंग्रहादौ मप्रपञ्चमभिहितमिति नेह प्रतन्यते, केवलं तत एवावधारणीयम् । तस्य
SPIRTHDaieet