SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥८२॥ (उ०)-उक्तं जघन्यानुभागसंक्रमपरिमाणम् । अथ साधनादिप्ररूपणा कार्या । सा च मूलोत्तरप्रकृतिविषयतया द्विधा । तत्र | मूलप्रकृतीनां साधनादिप्ररूपणामाह-ज्ञानावरणदर्शनावरणान्तरायलक्षणानां त्रयाणां कर्मणामजघन्योऽनुभागस्त्रिधा-अनादिरध्रुवो | संक्रमकरणे ध्रुवश्चेति । तथाहि-एतेषां जघन्यानुभागसंक्रमः क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ प्राप्यते, स च सादिरध्रुवश्च । अनुभाग संक्रमः। ततोऽन्यः सर्वोऽप्यजघन्यः, स चानादिः । अध्रुवध्रुवौ भव्याभव्यापेक्षया । मोहनीयस्याजघन्यानुभागसंक्रमश्चतुर्विधः-सादिरनादिर्बुवो-1) ऽध्रुवश्च । तथाहि-मोहनीस्य जघन्यानुभागसंक्रमः समयाधिकावलिकाशेषायां स्थितौ सूक्ष्मसंपरायस्य क्षपकस्य भवति, स च सादिर- | ध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । स च क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्योपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः । तत्स्थानमप्राप्तस्थानादिः । ध्रुवाध्रुवौ पूर्ववत् । अथायुषोऽनुत्कृष्टोऽनुभागसंक्रम एवं मोहनीयाजघन्यानुभागसंक्रमवचतुर्विधः साधनादिध्रुवाध्रुवभेदाद् । तथाहि अप्रमत्तः सुरायुष उत्कृष्टमनुभागं बद्ध्वा बन्धावलिकायाः परतः संक्र-13 मयितुमारभमाणस्तं तावत्संक्रमयति यावदनुत्तरसुरभवे स्थितस्य त्रयस्त्रिंशत्सागरोपमाण्यतिगच्छन्ति, आवलिकामात्रा स्थितिवतिष्ठते, | ततोऽन्य आयुषोऽनुभागसंक्रमः सर्वोऽप्यनुत्कृष्टः, स च सादिः। तत्स्थानमप्राप्तस्यानादिः। धुवाध्रुवौ पूर्ववद् । शेषाणां नामगोत्रवेदनीयानां अनुत्कृष्टोऽनुभागसंक्रमस्त्रिविधः-अनादिरध्रुवो ध्रुवश्च । तथाहि-सूक्ष्मसंपरायेण क्षपकेण स्वगुणस्थानचरमसमये नामगोत्र| वेदनीयानां सर्वोत्कृष्टोऽनुभागो बध्यते, बन्धावलिकायामतीतायां यावत्सयोगिचरमसमयस्तावत्संक्रम्यते । स च सादिरधुवश्च ।। ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चादेरभावादनादिः । ध्रुवाध्रुवौ पूर्ववत् ॥४९॥ ॥८॥ सेसा मूलप्पगइसु दुविहा अह उत्तरा अजहन्नो । सत्तरसण्ह चउद्धा तिविगप्पो सोलसण्हं तु ॥५०॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy