________________
___ (मलय०) तदेवमुक्तं जघन्यानुभागसंक्रमपरिमाणम् , सम्प्रति साधनादिप्ररूपणा कर्तव्या। सा च द्विधा मूलप्रकृतिसाद्यनादिप्ररूपणा उत्तरप्रकृतिसाद्यनादिग्ररूपणा च । तत्र मूलप्रकृतीनां साधनादिप्ररूपणार्थमाह-'अजहण्णो' ति । ज्ञानावरणदर्शनावरणान्तरायलक्षणानां त्रयाणां कर्मणामजघन्योऽनुभागः 'त्रिधा'-त्रिप्रकारः, तद्यथा-अनादिरध्रुवो ध्रुवश्च । तथाहि-क्षीणकषायस्यैतेषां कर्मणां समयाधिकावलिकाशेषायां स्थितौ जघन्यानुभागसंक्रमो भवति, स च सादिरध्रुवश्च, ततोऽन्यः सर्वोऽप्यजघन्यः, स चानादिः, अध्रुवध्रुवौ भव्याभव्यापेक्षया । मोहनीयस्याजघन्योऽनुभागसंक्रमश्चतुर्विधः । तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च । तथाहि-मूक्ष्मसंपरायस्य क्षपकस्य मोहनीयस्य समयाधिकावलिकाशेषायां स्थितौ जघन्योऽनुभागसंक्रमो भवति । स च सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । स च क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्योपशान्तमोहगुणस्थानके न भवति, उपशान्तमोहगुणस्थानकाच प्रतिपततः | सतः पुनरपि भवति, ततोऽसौ सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः। धुवाधुवौ पूर्ववत । आयुषस्त्वनुत्कृष्टोऽनुभागसंक्रमश्चतुर्विधः, | तद्यथा-सादिरनादिर्बुवोऽध्रुवश्च । तथाहि-अप्रमत्तो देवायुष उत्कृष्टमनुभागं बद्ध्वा बन्धावलिकायाः परतः संक्रमयितुमारभते । तं च तावत्संक्रमयति यावदनुत्तरसुरभवे स्थितस्य त्रयस्त्रिंशत्सागरोपमाण्यतिक्रामन्ति, आवलिकामात्रा स्थितिरवतिष्ठते। ततोऽन्योऽनुभागसंक्रम आयुषः सर्वोऽप्यनुत्कृष्टः, स च सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । धुवाध्रुवावभव्यभव्यापेक्षया । 'शेषाणां'-नामगोत्रवेदनीयानामनुत्कृष्टोऽनुभागसंक्रमः 'त्रिविधः'-त्रिप्रकारः, अनादिरध्रुवो ध्रुवश्च । तथाहि-सूक्ष्मसंपरायेण क्षपकेण स्वगुणस्थानकस्य चरमसमये तेषां नामगोत्रवेदनीयानां सर्वोत्कृष्टोऽनुभागो बध्यते । बन्धावलिकायामतीतायां यावत्सयोगिचरमसमयस्तावत्संक्रामति । स च सादिरध्रुव। ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । स चानादिः, आदेरभावात् । धुवाध्रुवौ पूर्ववत् । ॥४९॥