SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ अनुभाग दनार्थमाह-'मंदो त्ति । सम्यक्त्वस्य पुरुषवेदस्य संज्वलनानां चैकस्थानके रसे संक्रामति मन्दो-जघन्योऽनुभागसंक्रमो वेदितव्यः। एत-18 कर्मप्रकृतिः | दुक्तं भवति सम्यक्त्वस्य सर्वविशुद्ध एकस्थानको रसो यदा संक्रामति तदा स तस्य जघन्योऽनुभागसंक्रमः, पुरुषवेदसंज्वलनानां च । संक्रमकरण ॥८०|| IN | क्षपणकाले यानि समयोनावलिकाद्विकबद्धानि स्पर्धकानि एकस्थानरसोपेतानि तानि यदा संक्रामन्ति तदा स तेषां जघन्योऽनुभाग-2 | संक्रमः। 'सेसासु' इत्यादि-शेषासूक्तव्यतिरिक्तासु सर्वासु प्रकृतिषु सर्वघातीनि द्विस्थानकरसोपेते स्पर्धके संक्रम्यमाणे जघन्योऽनुभाग | संक्रमः | संक्रमो वेदितव्यः । इदमत्र तात्पर्य सम्यक्त्वपुरुषवेदसंज्वलनचतुष्टयव्यतिरिक्तानां शेषप्रकृतीनां घातित्वमाश्रित्य सर्वघातीनि, स्थान| माश्रित्य द्विस्थानकरसोपेतानि मन्दानुभावानि यानि रसस्पर्धकानि तानि यदा संक्रामन्ति तदा स तासां जघन्योऽनुभागसंक्रमः । इह १२ | यद्यपि मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणान्तरायपश्चकानामेकस्थानकोऽपि रसो बन्धे प्राप्यते तथापि क्षयकाले | प्राग्बद्धो द्विस्थानकोऽपि रसः संक्रामति नैकस्थानकः केवल इति जघन्यसंक्रमविषयतया नैतेषामेकस्थानकरस उक्तः॥४८॥ (उ०)-'शेषाणाम्'-उक्तव्यतिरिक्तानां प्रकृतीनां स्थानमाश्रित्य सर्वोत्कृष्टश्चतुःस्थानको घातित्वमाश्रित्य सर्वघाती रसःस्वीयः साह| चर्यजनितो वा यदा संक्रामति तदा स तासामुत्कृष्टोऽनुभागसंक्रमः । उक्तमुत्कृष्टानुभागसंक्रमप्रमाणम् । अथ जघन्यानुभागसंक्रमप्रमाणं | प्रतिपादयति 'मदो' इत्यादि । सम्यक्त्वस्य पुरुषवेदस्य संज्वलनानां चैकस्थानके रसे संक्रामति सति मन्दो जघन्यानुभागसंक्रमो | | ज्ञेयः । इदमुक्तं भवति-सम्यक्त्वस्य सर्वशुद्ध एकस्थानको रसो यदा संक्रामति तदा स तस्य जघन्यानुभागसंक्रमः । पुरुषवेदसंज्वलनानां च क्षपणकाले यानि समयोनावलिकाद्विकवद्धान्येकस्थानकरसोपेतानि सर्वजघन्यस्पर्धकानि तानि यदा संक्रामन्ति तदा स ||८०॥ तेषां जघन्यानुभागसंक्रमः । 'शेषासु'-उक्तव्यतिरिक्तासु सर्वामु प्रकृतिषु सर्वघातीनि द्विस्थानकरसोपेते स्पर्धके संक्रामति जघन्यानुभाग-1
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy