SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥७९॥ संक्रमकरणे अनुभागसंक्रमः। घातित्वप्रमाणे च । 'ज्येष्ठः'-उत्कृष्टोऽनुभागसंक्रमः सम्यक्त्वस्य देशघातिनि द्विस्थानके रसस्पर्धके संक्रम्यमाणे वेदितव्यः । एतदुक्तं भवति-सम्यक्त्वस्य घातित्वमाश्रित्य देशघाति, स्थानमाश्रित्य सर्वोत्कृष्टद्विस्थानकरसोपेतं स्पर्धकपटलं यदा संक्रामति तदा तस्योत्कृष्टो-16 अनुभागसंक्रम इति । नरायुस्तियगायुरातपसम्यग्मिथ्यात्वानां स्थानं प्रतीत्य सर्वोत्कृष्टद्विस्थानकरसोपेते घातित्वमाश्रित्य सर्वघातिनि | | रसस्पर्धके उत्कृष्टोऽनुभागसंक्रमः । अत्रापीयं भावना-नरतिर्यगायुरातपसम्यग्मिथ्यात्वानां सर्वोत्कृष्टद्विस्थानकरसोपेतं सर्वघातिरसस्प धकं यदा संक्रामति तदा स तेषामुत्कृष्टोऽनुभागसंक्रमः । अत्र नरतिर्यगायुरातपानां 'दुतिचउट्ठाणा उ सेसा उ' इति वचनात् द्वित्रिचतु:| स्थानकरससंभवेऽपि यत् द्विस्थानकरसस्पर्धकस्यैव संक्रमे उत्कृष्टोऽनुभागसंक्रम उक्तः स एवं ज्ञापयति-एतेषां कर्मणां तथास्वाभा-1 | व्यादेव त्रिस्थानकचतुःस्थानकरसस्पर्धकानामुद्वर्तनापवर्तनाप्रकृत्यन्तरनयनरूपत्रिप्रकारोऽपि संक्रमो न भवतीति ॥ ४७॥ (उ०)-उक्तं विशेषलक्षणं, अथोत्कृष्टानुभागसंक्रमप्रमाणप्रतिपादनार्थमाह-'द्विविधे प्रमाणे स्थानप्रमाणे घातित्वप्रमाणे च । ज्येष्ठ:'.-- | उत्कृष्टोऽनुभागसंक्रमः सम्यक्त्वस्य देशघातिनि द्विस्थानके रसस्पर्द्ध के संक्रम्यमाणे वेदितव्यः, सम्यक्त्वस्य घातित्वमाश्रित्य देशघाति, | स्थानमाश्रित्य च सर्वोत्कृष्टं द्विस्थानकरसोपेतं स्पर्धकपटलं यदा संक्रामति तदा तस्योत्कृष्टोऽनुभागसंक्रम इत्यर्थः । अस्यैकस्थानको-1 | ऽनुभागो जघन्यत्वादेव त्यज्यते, त्रिस्थानचतुःस्थानको च न भवत एव । तथा नरायुस्तियगायुरातपसम्यग्मिथ्यात्वानां स्थानं प्रतीत्य | सर्वोत्कृष्टद्विस्थानकरसोपते घातित्वमाश्रित्य सर्वघातिनि रसस्पर्धके उत्कृष्टोऽनुभागसंक्रमः, नरतियगायुरातपसम्यग्मिथ्यात्वानां सर्वोस्कृष्टं द्विस्थानकरसोपेतं सर्वघातिरसस्पर्धकं यदा संक्रामति तदा स तेषामुत्कृष्टोऽनुभागसंक्रम इत्यर्थः । अत्र सम्यग्मिथ्यात्वस्य रसः | सवापि सर्वघाती द्विस्थानिकश्च विद्यते, न शेष इति शेषसंक्रमप्रतिषेधः । आतपमनुष्यतिर्यगायुषां तु 'दुतिचउडाणा उ सेसा उ' इति ॥७९॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy