SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ 2222 विसाते उत्तरपगतीणं सव्वघातीणि फड्डगाणि । णाणावरणचउकं चक्खुदंसणावरणीय अच क्खुदंसणावरणीय ओहिदंसणावरणीय पंचविहअंतरातित चत्तारिसंजलणणवणोकसाय - एयासिं पणुवीसाए उत्तरपगतीणं देसघातीणि फडुगाणि । वेयणियाउणामगोयाणं एकारस्सुत्तरस्स पगनिसतस्स सत्र्वघाईपलि भागाणि फडगाणि बन्धसतगे भणिताणि ॥ ४४ ॥ ( मलय ० ) - तदेवमुक्तः स्थितिसंक्रमः । सम्प्रत्यनुभागसंक्रमाभिधानावसरः, तत्र चैतेऽर्थाधिकारास्तद्यथा-भेदः, स्पर्धकप्ररूपणा, विशेषलक्षणप्ररूपणा, उत्कृष्टानुभाग संक्रमप्रमाणप्ररूपणा, जघन्यानुभागसंक्रमप्रमाणप्ररूपणा, साद्यनादिप्ररूपणा, स्वामित्वं चेति । तत्र भेदप्ररूपणार्थमाह-- 'मूलुत्तर'ति । 'अनुभागे' - अनुभागविषये 'संक्रमो' - मूलोत्तरप्रकृतिगतः । किमुक्तं भवति । द्विधाऽनुभागसंक्रमस्तद्यथा-मूलप्रकृत्यनुभागसंक्रम उत्तरप्रकृत्यनुभागसंक्रमच । ते च मूलोत्तरप्रकृतिभेदा 'यथा बन्धे' - बन्धशतकेऽभिहितास्तथात्रापि द्रष्टव्याः । कृता भेदप्ररूपणा | स्पर्धकप्ररूपणार्थमाह-'फड्डग' इत्यादि । आसां सर्वघातिनीनां देशघातिनीनामघातिनीनां च प्रकृतीनां 'स्पर्धकनिर्देश:'स्पर्धकप्ररूपणा यथा शतके कृता तथात्रापि कर्तव्या । तथापि किञ्चिदुच्यते तत्र च केवलज्ञानावरणकेवलदर्शनावरणाद्यद्वादशकषायनिद्रापञ्चकमिथ्यात्वलक्षणानां विंशतिप्रकृतीनां रसस्पर्धकानि सर्वघातीनि सर्वं स्वघात्यं केवलज्ञानादिलक्षणं गुणं घातयन्तीति सर्वघातीनि । तानि च ताम्रभाजनवत् निश्छिद्राणि, घृतवत् स्निग्धानि, द्राक्षावत्तनुप्रदेशोपचितानि, स्फटिकाभ्रहारवच्चातीव निर्मलानि । उक्तं च - " जो घाय सविसयं सयलं सो होइ सव्वधाइरसो । सो निच्छिदो निद्धो तणुओ फलिहन्भहरविमलो" ॥१॥ मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयनवनोकषायान्तरायपञ्चकलक्षणानां पञ्चविंशतिसंख्यानां देशघातिप्रकृतीनां दे
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy