________________
कसायपुरिसवेदमत्तगं बवेति । णपुंसकवेदेण पडिवण्णो इत्थीवेदं णपुंसगवेदं जुगवं बवेति त्ति । तम्हा कालवि| सेसो लगभतित्ति काऊणं तम्हि काले उवरि सहितिओवट्टणा लब्भति । ततो जहण्णगो ट्ठितिमंकमो त्ति 'वेदगो | वेदेह' इति वयणं । भणियो द्वितिसकमो ॥४३।।
(मलय०)—'चरिम'त्ति । या योग्यन्तिकाः प्रकृतयश्चतुर्नवतिसंख्याः प्रागुक्तास्तासां स एव-सयोगिकेवली चरमापवर्तने वर्तमानो | जघन्यस्थितिसंक्रमस्वामी भवति । शेषप्रकृतीनां जघन्यस्थितिसंक्रमस्वामिनमाह-'सेसगाणं'इत्यादि । शेषाणां स्त्यानद्धिंत्रिकनामत्रयोदशकाष्टकषायनवनोकषायसंज्वलनक्रोधमानमायालक्षणानां षट्त्रिंशत्प्रकृतीनां 'क्षपणक्रमेण-क्षपणपरिपाटया चरमे पल्योपमासं
ख्येयभागादिमात्रे संछोभणे वर्तमानोऽनिवृत्तिबादरो जघन्यस्थितिसंक्रमस्वामी भवति । 'वेयगो वेदेति । वेदको वेद-वेदस्य जघन्य| स्थितिसंक्रमस्वामी । इयमत्र भावना-पुरुषवेदोदये वर्तमानः पुरुषवेदस्य, स्त्रीवेदोदये वर्तमानः स्त्रीवेदस्य, नपुंसकवेदोदये वर्तमानो | नपुंसकवेदस्यानिवृत्तिबादरसंपरायश्चरमसंक्रमं कुर्वन् जघन्यस्थितिसंक्रमस्वामी वेदितव्यः । अन्येन हि वेदेन क्षपकश्रेणिमारूढस्यान्यस्य वेदस्य जघन्यस्थितिसंक्रमो न लभ्यते । तथाहि-येन वेदेन क्षपकश्रेणिमारोहति तस्य वेदस्योदयोदीरणापवर्तनादिभिः स्थितिः पुद्गलाश्च बहवः परिशटन्ति । ततो यद्यपि नपुंसकवेदेन क्षपकश्रेणिं प्रपन्नः स्त्रीवेदनपुंसकवेदौ युगपत्क्षपयति तथापि नपुंसकवेदस्यैव जघन्यः | स्थितिसंक्रमः प्राप्यते, न स्त्रीवेदस्य, उदयोदीरणयोरभावात् । स्त्रीवेदेन च प्रतिपन्नो नपुंसकवेदक्षयानन्तरमन्तर्मुहूर्तेन कालेन स्त्रीवेदं
क्षपयति । एतावता च कालेनोदयोदीरणाभ्यां बही स्थितिखटयति । यद्यपि च पुरुषवेदेनापि प्रतिपन्नस्यैतावान् कालो लभ्यते त-| Vथापि तस्य स्त्रीवेदसत्के उदयोदीरणे न भवत इति स्त्रीवेदप्रतिपन्नस्यैव वीवेदस्य जघन्यः स्थितिसंक्रमः, न शेषस्य । तथा पुरुषवेदेन |