SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ | क्षपकश्रेणिं प्रपन्नो हास्यादिषदकक्षयानन्तरं पुरुषवेदं क्षपयति, अन्यथा तु हास्यादिषट्कसहितम् । उदितस्य च वेदस्योदीरणापि प्रव-10 कर्मप्रकृतिःतते इति बही स्थितिस्टयति, ततः पुरुषवेदस्यापि पुरुषवेदारूढस्यैव जघन्यः स्थितिसंक्रमो न शेषस्य ॥४३॥ संक्रमकरणे ॥७५|| डा (उ०) 'सयोगे'-सयोगिकेवलिनि याश्चतुर्नवतिसङ्ख्याः प्रागुक्ताः प्रकृतयस्तासां स एव-सयोगिकेवली चरमापवर्तने वर्तमानो जघ |स्थितिसं क्रमः। न्यस्थितिसंक्रमस्वामी । शेषाणां तु स्त्यानिित्रकनामत्रयोदशकाष्टकषायनवनोकषायसंज्वलनक्रोधमानमायालक्षणानां षट्त्रिंशत्प्रकृतीनां क्षपकक्रमेण चरमे पल्योपमासङ्खयेयभागमात्रे संछोभे वर्तमानोऽनिवृत्तिबादरोजघन्यस्थितिसंक्रमस्वामी भवति । 'वेयगो वेदे' ति वेदस्य 2 वेदकः स्वोदये वर्तमानः क्षपकोऽनिवृत्तिबादरश्चरमसंक्रमं कुर्वन् जघन्यस्थितिसंक्रमस्वामी वेदितव्यः । अन्येन हि वेदेन क्षपकश्रेणिमारूढस्य वेदान्तरस्य जघन्यस्थितिसंक्रमो न लभ्यते, येन वेदेन क्षपकश्रेण्यारोहस्तस्यैव वेदस्योदयोदीरणापवर्तनादिभिर्बह्वयाः स्थिते| बहूनां च पुद्गलानां परिशटनात् । एवं हि नपुंसकवेदेन यद्यपि क्षपकश्रेणिमारूढः स्त्रीवेदनपुंसकवेदी युगपत् क्षपयति तथापि नपुंस कवेदस्यैव जघन्यस्थितिसंक्रमः प्राप्यते, न स्त्रीवेदस्य, उदयोदीरणयोरभावात्। स्त्रीवेदेन च प्रतिपन्नो नपुंसकवेदक्षयानन्तरमन्तर्मुह| तेन कालेन स्त्रीवेदं क्षपयति । पुरुषवेदेनापि च प्रतिपन्नस्य यद्यप्येतावानेव कालो लभ्यते तथापि तस्य स्त्रीवेदसत्कोदयोदीरणे न भवत | इत्येतावता कालेन त्रीवेदप्रतिपन्नस्यैवोदयोदीरणाभ्यां बह्वयाः स्थितेस्टयमानत्वात् तस्यैव स्त्रीवेदस्य जघन्यस्थितिसंक्रमः, न शेषस्य ।। तथा पुरुषवेदेन क्षषकश्रेणि प्रतिपन्नो हास्यादिषद्कक्षयानन्तरं पुरुषवेदं क्षपयति, अन्यथा तु हास्यादिषट्कसहितम् , उदितस्य च वेदस्यो ॥७५॥ | दीरणाया अपि प्रवृत्तेः प्रभूता स्थितिखटयतीति पुरुषवेदस्यापि पुरुषवेदारूढस्यैव जघन्यस्थितिसंक्रमो न शेषस्य । आयुषां तु चतुणा स्वस्वभवव्यवच्छेदसमये समयाधिकावलिकायां शेषायां वर्तमानः समयमात्रामुपरितनी स्थिति स्वस्वोदयावलिकात्रिभागेऽधस्तने समया-1 |
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy