________________
ASI
ASIA
क्रम
ज्ञानावरणदर्शनावरणान्तरायाणां क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य जघन्यः स्थितिसंक्रमो भवति । नामगोकर्मप्रकृतिः वेदनीयायुषां तु सयोगिकेवलिचरमसमयेऽन्तर्मुहूर्तप्रमाण आवलिकारहितो जघन्यः स्थितिसंक्रमः । स च सादिरध्रुवश्च । तस्मादन्यः |संक्रमकरणे | सर्वोऽपि स्थितिसंक्रमोऽजघन्यः। स चानादिः, ध्रुवोऽभव्यानां, भव्यानामध्रुवः। 'चउबिहो मोहे' त्ति-मोहे मोहनीयेऽजघन्यः स्थि
ISस्थितिसं॥६८॥
|तिसंक्रमश्चतुर्विधः, तद्यथा-सादिरनादिर्धवोऽध्रुवश्च । तथाहि-मोहनीयस्य जघन्यः स्थितिसंक्रमः सूक्ष्मसंपरायस्य क्षपकस्य समयाधि१६ कावलिकायां शेषायां स्थितो, ततोऽसौ सादिरध्रुवश्च । तस्माच जघन्यादन्यः सर्वोऽप्यजघन्यः । स च क्षायिकसम्यग्दृष्टरुपशान्तमोह
गुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, अध्रुवध्रुवौ भव्याभव्यापेक्षया । शेपविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणास्तेषां कर्मणां संक्रम-संक्रमविषये द्विविकल्पा भवन्ति, तद्यथा सादयोऽध्रुवाश्च । तथाहि-य ए-1 वोत्कृष्टां स्थिति बनाति स एवोत्कृष्टं स्थितिसंक्रमं करोति, उत्कृष्टां च स्थिति बध्नाति उत्कृष्टे संक्तशे वर्तमानः, न चोत्कृष्टः संक्लेशः सर्वदेव लभ्यते, किन्त्वन्तरान्तरा, शेषकालं त्वनुत्कृष्टः । तत एतौ द्वावपि साद्यधुवौ । जघन्यश्च साद्यधुवः प्रागेव भावितः ॥३६॥ | | (उ०)-तदेवमुक्तं जघन्यस्थितिसंक्रमपरिमाणम् , सम्प्रति साधनादिप्ररूपणावसरः । सा च द्विधा मूलप्रकृतीनामुत्तरप्रकृतीनां च । तत्र मूलप्रकृतीनां साधनादिप्ररूपणामाह-मूलस्थितिसंक्रमे मोहनीयवर्जानां सप्तानां कर्मणामजघन्यः स्थितिसंक्रमविधा-अनादिध्रुवोऽध्रुवश्चेति । तथाहि-ज्ञानावरणदर्शनावरणान्तरायाणां क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य जघन्यः ॥ ६८॥ स्थितिसंक्रमो भवति । नामगोत्रवेदनीयायुषां तु सयोगिकेवलिचरमसमयेऽन्तर्मुहर्तप्रमाण उदयावलिकारहितो जघन्यस्थितिसंक्रमः ४. संभवति । स च सादिरध्रुवश्च । तस्मादन्यः सर्वोऽपि स्थितिसंक्रमोऽजघन्यः, स चानादिः, ध्रुवोऽभव्यानां, भव्यानामध्रुवः। 'मोहे'