SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ (उ०) केवलिसत्कर्मणां जघन्यस्थितिसंक्रमप्ररूपणाथमाह-'जोगतियाणमंतोमुहुत्तिओ' । योगिनि-सयोगिकेवलिनि संक्रममा| श्रित्यान्तो यासां ता 'योग्यन्तिकाः'-नरकद्विकतिर्यग्द्विकाद्यजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपोद्योतवाः शेषा नाम्नो नवतिप्रकृतयः | सातासातवेदनीयोचावनीचेगात्राणि च, तासां जघन्यस्थितिसंक्रमोऽन्तर्मुहूर्तप्रमाणः। तथाहि एतासां सयोगिकेवलिचरमसमयेऽ- 12) |न्तमुहूर्तप्रमाणा स्थितिविद्यते, सा च तस्मिन्नेव समये सर्वापवर्तनयाऽपवयायोग्यवस्थाप्रमाणा क्रियते, अयोग्यवस्था चान्तमौहृतिकी, | | केवलमिदमन्तमुहूर्त लघुतरमवसेयम् , सर्वापवर्तनया चापवय॑ते स्थितिरुदयावलिकारहिता, उदयावलिकाया सकलकरणायोग्यत्वेनान| पवर्तनीयत्वात् , ततोऽपवय॑मानोदयावलिकारहिता सा जघन्यस्थितिसंक्रमः, तया च सहितापवर्तनारूपजघन्यस्थितिसंक्रमकाले तासां यत्स्थितिः। नन्वासां प्रकृतीनामयोगिकेवलिनि समयाधिकावलिकाशेषायां स्थितौ वर्तमाने जघन्यस्थितिसंक्रमः कुतो नोच्यते क्षीण| कपाय इव मतिज्ञानावरणीयादीनाम् ? उच्यते अयोगिकेवलिनः सकलसूक्ष्मबादरयोगरहितत्वेन निष्क्रियस्य करणमात्राप्रवर्तकत्वात शेषाः प्रकृतीरधिकृत्याह 'सेसियाण' इत्यादि । उक्तशेषाणां प्रकृतीनां स्त्यान ित्रिकमिथ्यात्वसम्यग्मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्या| ख्यानावरणनपुंसकस्त्रीवेदनरकद्विकतियरिद्वकाद्यजातिचतुष्टयस्थावरसूक्ष्मातपोद्योतसाधारणलक्षणानां द्वात्रिंशत्सङ्ख्यानां स्वस्वक्षपणकाले यश्चरमसंछोभः-पल्योपमासङ्खथेयभागमात्रः, स जघन्यः स्थितिसंक्रमः, यस्थितिकस्तु-स्वकालीनः सर्वस्थितियुक्तस्तु संक्रमावलिकया | सह युक्तो बेदितव्यः । इयं च यत्स्थितिः स्त्रीनपुंसकवेदावतिरिच्याभिहिता द्रष्टव्या, यतः स्त्रीनपुंसकवेदवर्जानां शेषप्रकृतीनामेकाम-100 ५. धस्तादावलिकां मुक्त्वा शेषमुपरितनं पल्योपमासङ्खयेयभागमात्रं चरमखण्डमन्यत्र संक्रमयति, ततस्तासां जघन्यस्थितिसंक्रमकाले यस्थितिः स एव जघन्यस्थितिसंक्रम आवलिकयाऽभ्यधिको भवति । स्त्रीनपुंसकवेदयोस्तु चरमं स्थितिखण्डमन्तरकरणे स्थितेन
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy