________________
कर्मप्रकृतिः
॥६५॥
शेषा नाम्नो नवतिप्रकृतयः सातास तवेदनीयोच्चै गोत्रनीचैगोत्राणि च एतासां सयोगिकेवलिचरमसमये सर्वापवर्तनयाऽऽन्तमौहूर्तिकी स्थितिर्भवति । सा चापवर्त्यमाना उदद्यावलिकारहिता जघन्यस्थितिसंक्रमः, उदयावलिका सकलकरणायोग्येति कृत्वा नापवर्त्यते, तया चावलिकया सहिताऽपवर्तनारूपजघन्यस्थितिसंक्रमकाले तासां यत्स्थितिः । नन्वासां प्रकृतीनामयोगिकेवलिनि समयाधिकावलिकाशेपायां स्थितौ वर्तमानो जघन्यः स्थितिसंक्रमः कस्मान्नाभिधीयते, क्षीणकपाय इव मतिज्ञानावरणीयादीनामिति ? उच्यते-अयोगिकेवली भगवान् सकलसूक्ष्मबादरयोगप्रयोग रहितो मेरुरिव निष्प्रकम्पो नैकमप्यष्टानां करणानां मध्ये करणं प्रवर्तयति, निष्क्रियत्वात्, | केवलमुदयप्राप्तानि वेदयते । ततः सयोगिकेवलिन एवैतासां जघन्यः स्थितिसंक्रमः प्राप्यते । 'सेसियाण' इत्यादि-उक्तशेषाणां प्रकृतीनां स्त्यानर्द्धित्रिकमिथ्यात्वसम्यग्मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणनपुंसकस्त्रीवेद नरकद्विकतिर्यद्विकपञ्चेन्द्रियजातिवर्जशेपजातिचतुष्टयस्थावरसूक्ष्मात पोद्योतसाधारणलक्षणानां द्वात्रिंशत्प्रकृतीनामात्मीयात्मीयक्षपणकाले यश्वरमः संछोभः पल्योपमासंख्येयभागमात्रः स जघन्यः स्थितिसंक्रमः । 'यत्स्थितिकस्तु' - सर्वस्थितियुक्तस्तु स एवावलिकया सह युक्तो वेदितव्यः । अयमिह | सम्प्रदायः - स्त्रीनपुंसकवेदवजीनां प्रकृतीनामेकामधस्तादावलिकां मुक्त्वा शेषमुपरितनं पल्योपमासंख्येयभागमात्रं चरमखण्डमन्यत्र संक्रमयति । ततस्तासां जघन्यस्थितिसंक्रमकाले यत्स्थितिः स एव जघन्यस्थितिसंक्रम आवलिकयाऽभ्यधिको वेदितव्यः । स्त्रीनपुंसकवेदयोस्त्वन्तर्मुहूर्तेनाभ्यधिको, यतस्तयोश्वरमं स्थितिखण्डमन्तरकरणे स्थितः सन् संक्रमयति, अन्तरकरणे च कर्मदलिकं न विद्यते, किन्तु तत ऊर्ध्वम्, अन्तरकरणं चान्तर्मुहूर्तप्रमाणम्, ततोऽन्तर्मुहूर्तयुक्तो जघन्यस्थितिसंक्रमस्तयोर्यत्स्थितिरवसेया । शेषाणां तु प्रक्रतीनामन्तरकरणं न भवति, ततस्तासामावलिकायुक्त एव यत्स्थितिः ||३५||
22Zhakha
संक्रमकरणे
| स्थितिसं
क्रमः ।
॥६५॥