SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ स्यास्ति स संक्रमो यस्थितिकः, या स्थितिर्विद्यते यस्यासो यस्थितिक इति बहुव्रीहिसमाश्रयणात् , 'सावलिक'-आवलिकया सहितो | द्रष्टव्यः । एतदुक्तं भवति-यः प्रागुक्तः संक्रमः स आवलिकया सहितः सन् यावान् भवति तावती संक्रमकाले स्थितिरित्यर्थः। ततो बन्धोत्कृष्टानामावलिकाहीना, संक्रमोत्कृष्टानां त्वावलिकाद्विकहीना संक्रमकाले सर्वा स्थितिवेदितव्या । तथाहि-संक्तशादिकारण| वशत उत्कृष्टां स्थिति बद्ध्वा बन्धावलिकायामतीतायामुदयावलिकात उपरितनी स्थितिमन्यत्र प्रकृत्यन्तरे संक्रमयितुमारभते, ततो बन्धोत्कृष्टानामेकावलिकाहीना संक्रमकाले सर्वा स्थितिः प्राप्यते, संक्रमोत्कृष्टानां पुनर्बन्धावलिकासंक्रमावलिकयोरतीतयोरुदयावलिकातः परतो वर्तमान स्थितिमन्यत्र संक्रमयति, तेन संक्रमोत्कृष्टानामावलिकाद्विकहीना संक्रमकाले सर्वा स्थितिखाप्यते । अथायुषामुत्कृष्टा स्थितिः किं बन्धोत्कृष्टा उत संक्रमोत्कृष्टा ? उच्यते-बन्धोत्कृष्टव । तथा चाह-'अहाउगाणं' इत्यादि । आयुपामुत्कृष्टः स्थिति| संभवो बन्धोत्कृष्ट एव न संक्रमोत्कृष्टः । यतो नायुपां परस्परं संक्रमः "मोहदुगाउगमूलप्पगडीण न परोप्परंमि संकमणं" इतिवच-15 | नात् । 'साबाहठिई' इत्यादि । आयुषां 'साबाधा' अबाधासहिता या सर्वा स्थितिः सा यत्स्थितिरवगन्तव्या, केवलं 'बंधुक्कोसाणं आवलिगूणा ठिई जट्टिई' इति वचनात् बन्धावलिकोना द्रष्टव्या । तथाहि-आयुर्वन्धे प्रवर्तमान एव प्रथमसमये यद्धं दलिकं तद्वन्धावलिकातीतं सदुद्वर्तयति, तत उद्वर्तनारूपसंक्रमे बन्धावलिकोना साबाधा यत्स्थितिः प्राप्यते । अथवाऽपवर्तनापि निर्व्याघातभाविन्यायुषो बन्धावलिकायामतीतायां सर्वदेव प्रवर्तते, ततस्तामधिकृत्य यथोक्ता यस्थितिरवसेया ॥३१॥ (उ०) सम्प्रति सर्वासां प्रकृतीनां बन्धोत्कृष्टानां संक्रमोत्कृष्टानां वा संक्रमकाले यावती स्थितिः प्राप्यते तावतीं निर्दिशति-स-1 १ संक्रमकरणे गाथा ३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy