________________
आवलिकामानं यावत्सकलकरणायोग्या, ततः संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वास्थातमपवतनाकरणन | स्वस्थाने संक्रमयति, सम्यग्मिथ्यात्वस्थितिमपि संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वे संक्रमयत्यपवर्तनाकर-| णेन स्वस्थाने च । तदेवं मिथ्यात्वस्यान्तर्मुहर्लोनः सम्यक्त्वसम्यग्मिथ्यास्खयोस्त्वन्तर्मुहूर्तावलिकाद्विकहीन उत्कृष्टस्थितिसंक्रम इति | | स्थितम् । ननु दर्शनत्रयसत्कर्मा मिथ्यादृष्टिः स एव यः पूर्व सम्यग्दृष्टि त्वा प्रतिपतितस्तस्य च मिथ्यात्वोत्कृष्टस्थितिबन्धो न संभव-१५ | ति, 'बंधेण न वोलइ कयावि' इत्यागमाद् भिन्नग्रन्थेः पतितस्यापि कोटाकोटयधिकबन्धनिषेधात् , ततः सर्वमिदं निर्मूलमिति चेत् , न, | 'बंधेण न बोलइ' इत्यस्य सिद्धान्तमतत्वात , कार्मग्रन्थिकैः सम्यग्दृष्टेः पतितस्य मिथ्यात्वमागतस्योत्कृष्टस्थितिबन्धस्याप्यभ्युपगमात् , | तस्य तथाविधरसाभावादेव विशेषसमर्थनादिति न कश्चिद्दोषः। इह तीर्थकरनाम्न आहारकसप्तकस्य चोत्कृष्टः स्थितिबन्धोऽन्तःसागरोपमकोटाकोटिप्रमाणः, सत्कर्माप्येतेषामेतावदेव, ततः किमेताः प्रकृतयो बन्धोत्कृष्टा उत संक्रमोत्कृष्टा इति संशये सत्याह-'अंतो' इत्यादि। आहारके आहारकसप्तके तीर्थकरे च संक्रमतः स्थितिसत्कर्मान्तःसागरोपमकोटाकोटी, अत एताः संक्रमोत्कृष्टा द्रष्टव्याः । यद्यपि बन्धेऽप्येतासामन्तःसागरोपमकोटाकोटिप्रमाणं स्थितिसत्कर्म प्रतिपादितं तथापि बन्धोत्कृष्टायाः स्थितेः सकाशात संक्रमोत्कृष्टा | | स्थितिः संख्येयगुणा द्रष्टव्या, “बंधट्टिईओ संतकम्मट्टिई संखेजगुण त्ति" चूर्णिकद्वचनात् । ननु नामकर्मण उत्कृष्टा स्थितिर्विंशति
सागरोपमकोटाकोटिप्रमाणा तत, आहारकसप्तके तीर्थकरे च संक्रमादुत्कृष्टा स्थितिः प्राप्यमाणा बन्धावलिकोदयावलिकारहिता विंश|तिसागरोपमकोटाकोटिप्रमाणेव लभ्यते, तत्कथमुच्यते तीर्थकराहारकसप्तकयोः संक्रमतोऽप्युत्कृष्टा स्थितिरन्तःकोटाकोटिप्रमाणेति चेत, | मैवं, अनयोः प्रकृत्यन्तरस्य स्थितिबन्धकाले संक्रामति, नान्यदा, बन्धश्चानयोर्विशुद्धसम्यग्दृष्टेः विशुद्धसंयतस्य च, विशुद्धसम्य
JOISODSORRIOSIT