SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥५९॥ Dhaka उत बन्धोत्कृष्टा इति तदपनोदार्थमाह- 'अन्तोकोडाकोडी' इत्यादि । आहार के आहारकसप्तके तीर्थकरे च संक्रमतः स्थितिसत्कर्म अन्तःसागरोपमकोटीकोटी, अत एताः संक्रमोत्कृष्टाः । यद्यपि च बन्धेऽप्यन्तः सागरोपमकोटीकोटीप्रमाणं स्थितिसत्कर्माभिहितम्, तथापि बन्धोत्कृष्टायाः स्थितेः सकाशात् संक्रमोत्कृष्टा स्थितिः संख्येयगुणा द्रष्टव्या । उक्तं च चूण- "बंधट्ठिईओ संतकम्मठिई संखिजगुणा"। ननु नामकर्मण उत्कृष्टा स्थितिर्विंशतिसागरोपमकोटीकोटीप्रमाणा, तत आहारके तीर्थकरे च संक्रमादुत्कृष्टा स्थितिः प्राप्यमाणा बन्धावलिको दयावलिकारहिता विंशतिसागरोपमकोटीकोटीप्रमाणैव लभ्यते, कथमुच्यते तीर्थकराहारकयोः संक्रमतोऽप्युत्कृष्टा स्थितिरन्तःसागरोपमकोटीकोटीप्रमाणेति ? तदयुक्तम्, अभिप्रायापरिज्ञानात् । तथाहि तीर्थकराहारकयोः प्रकृत्यन्तरस्य स्थितिः संक्रामति बन्धकाले नान्यदा, बन्धश्वानयोर्यथाक्रमं विशुद्धसम्यग्दृष्टेः संयतस्य च विशुद्धसम्यग्दृष्टीनां संयतानां च स्थितिसत्कर्म सर्वेषामपि कर्मणामायुर्वर्जानामन्तः सागरोपमकोटीकोटीप्रमाणं नाधिकम् । ततः संक्रमोऽप्येतावन्मात्र एव प्राप्यते नाधिक इत्यदोषः ||३०|| ( उ० ) - तदेवं बन्धे सति यासां संक्रमादुत्कृष्टा स्थितिस्तासां प्रकृतीनामिदमुत्कृष्टस्थितिसंक्रमपरिमाणमुक्तम् । अथ यासां बन्धेन विना केवलात्संक्रमादेवोत्कृष्टा स्थितिर्लभ्यते तासामुत्कृष्ट स्थितिसंक्रमपरिमाणं निरूपयन्नाह – मिथ्यात्वस्योत्कृष्टः स्थितिसंक्रमो भिन्नमुहूतनः । तथा सम्यक्त्वे सम्यक्त्वस्य, सम्यक्त्वे मिश्र वा मिश्रस्योत्कृष्टस्थितिसंक्रमो भिन्नमुहूर्तोनः । तुशब्दस्याधिकार्थसंसूचकत्वादावलिकाद्विकहीनश्च द्रष्टव्यः । इयमत्र भावना - दर्शन मोहनीयत्रयसत्कर्मा मिध्यादृष्टिरुत्कृष्टसंक्लेशे वर्तमानो मिथ्यात्वस्योत्कृष्टां स्थितिं बद्ध्वा ततोऽन्तर्मुहूर्त्तमात्रानन्तरं मिथ्यात्वात्प्रतिपत्य विशुद्धिमासादयन् सम्यक्त्वं प्रतिपद्यते । ततो मिथ्यात्वस्य | सप्ततिसागरोपमकोटाकोटिलक्षणामुत्कृष्टां स्थितिमन्तर्मुहूर्त्तानां सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्रमयति, सा च तत्र संक्रान्ता सती संक्रमकरणे स्थितिसंक्रमः । ॥५९॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy