________________
|| (उ०) तदेवं प्रतिपादिते भेदविशेषलक्षणे । अथोत्कृष्टस्थितिमंक्रमपरिमाणप्रतिपादनार्थमाह-इह सर्वासां प्रकृतीनां बन्धमा-19 |श्रित्योत्कृष्टा स्थितिः प्रागेव बन्धनकरणे प्रदर्शिता। अत्र तु संक्रमे उत्कृष्टा स्थितिश्चिन्त्यमाना द्विधा प्राप्यते बन्धोत्कृष्टा संक्रमो-13
स्कृष्टा च । तत्र बन्धादेव या स्थितिरुत्कृष्टा सा बन्धोत्कृष्टा, या तु बन्धेऽबन्धे वा सति संक्रमादुत्कृष्टा स्थितिर्लभ्यते सा संक्रमोत्कृष्टा । | तत्र यासामुत्तरप्रकृतीनां स्वस्वमूलप्रकृत्यपेक्षया स्थिते!नता न भवति, किं तु तुल्यतैव, ता बन्धोत्कृष्टाः, ताश्च सप्तनवतिः-ज्ञानावरणपञ्चकं दर्शनावरणनवकं अन्तरायपञ्चकं आयुश्चतुष्टयं असातवेदनीयं नरकद्विकं तिर्यग्द्विकं एकेन्द्रियजातिः पञ्चेन्द्रियजातिः तैजससप्तकं औदारिकसप्तकं वैक्रियसप्तकं नीलतिक्तवर्जमशुभवर्णादिसप्तकं अगुरुलघुपराघातोपघातोच्छ्वासातपोद्योतानि निर्माणं षष्ठसंस्थान| संहनने अशुभविहायोगतिः स्थावरनाम सचतुष्कं अस्थिरषद्कं नीचेोत्रं षोडश कषाया मिथ्यात्वं चेति । शेषास्त्वेकषष्टिः संक्रमो
स्कृष्टाः, ताश्चेमाः-सातवेदनीयं सम्यक्त्वं सम्यग्मिथ्यात्वं नव नोकषाया आहारकसप्तकं शुभवर्णाकादशकं नीलं तिक्तं देवद्विकं | मनुजद्विकं द्वित्रिचतुरिन्द्रियजातयः अनन्त्यानि पञ्च संस्थानानि संहननानि च प्रशस्तविहायोगतिः सूक्ष्म साधारणं अपर्याप्तं स्थिरषट्कं तीर्थकरोच्चैगोत्राणि च । तत्र बन्धोत्कृष्टानां मतिज्ञानावरणीयादिमिथ्यात्वषोडशकषायनरकद्विकादीनां यथाक्रमं त्रिंशत्सप्ततिचत्वारिंशविंशतिसागरोपमकोटीकोटिस्थितिकानां 'ज्येष्ठः'- उत्कृष्टस्थितिसंक्रमः 'आवलियदुगह' ति-आवलिकाद्विकहीनः । तथाहि-स्थितिबद्धा सती बन्धावलिकायामतीतायां सत्यां संक्रामति । तत्राप्युदयावलिका सकलकरणायोग्येति कृत्वोदयावलिकात उपरितनी संक्रामति, उदयावलिकामात्रं त्वसंक्रान्तमेवावतिष्ठते । ततो बन्धोत्कृष्टानामुत्कृष्टस्थितिसंक्रम आवलिकाद्विकहीन एव प्राप्यते । इहोदयवतीनामनुदयवतीनां वा प्रकृतीनामुदयसमयादारभ्यावलिकामात्रा स्थितिरुदयावलिकेति पूर्वग्रन्थेषु व्यवहियते । अत्र
GRICAENDAR