SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ Se बन्धमाश्रित्योत्कृष्टा स्थितिः प्रागेव बन्धनकरणे प्रतिपादिता । अत्र पुनः संक्रमे उत्कृष्टा स्थितिश्चिन्त्यमाना द्विधा प्राप्यते -बन्धोत्कृष्टा संक्रमोत्कृष्टा च । तत्र या बन्धादेव केवलादुत्कृष्टा स्थितिर्लभ्यते सा बन्धोत्कृष्टा । या पुनर्बन्धेऽबन्धे वा सति संक्रमादुत्कृष्टा स्थितिर्भवति सा संक्रमोत्कृष्टा । तत्र यासामुत्तरप्रकृतीनां स्वस्वमूलप्रकृत्यपेक्षया स्थितेर्न्यूनता न भवति किन्तु तुल्यतैव ता बन्धोत्कृष्टा ज्ञातव्याः ताः सप्तनवतिसंख्याः । तद्यथा - ज्ञानावरणपञ्चकम्, दर्शनावरणनवकम्, अन्तरायपञ्चकम्, आयुश्चतुष्टयम्, असातवेदनीयम्, नरकद्विकम् तिर्यद्विकम्, एकेन्द्रियजातिः, पञ्चेन्द्रियजातिः, तैजससप्तकम्, औदारिकसप्तकम्, बैंकियसप्तकम्, नी| लकटुवर्जमशुभवर्णसप्तकम्, [, अगुरुलघु, पराघातम्, उपघातम्, उच्छ्वासातपोद्योतानि, निर्माणम्, षष्ठं संस्थानम्, षष्ठं संहननम्, अशुभविहायोगतिः, स्थावरम्, त्रसचतुष्कम्, अस्थिरषट्कम्, नीचैर्गोत्रम्, पोडश कषायाः, मिध्यात्वं च सर्वसंख्यया सप्तनवतिः । अत्र नरतिर्यगायुषी यद्यपि स्वमूलप्रकृत्यपेक्षया तुल्यस्थितिके न भवतः तथापि संक्रमोत्कृष्टत्वाभावात्ते बन्धोत्कृष्टे उक्ते । शेषास्त्वेकपष्टिप्रकृतयः संक्रमोत्कृष्टाः । ताश्वेमाः - सातवेदनीयम्, सम्यक्त्वम्, सम्यग्मिथ्यात्वम्, नव नोकपायाः, आहारकसप्तकम्, | शुभवर्णाद्येकादशकम्, नीलम्, कटु, देवद्विकम्, मनुजद्विकम्, द्वित्रिचतुरिन्द्रियजातयः, अन्त्यवर्ज. नि संस्थानानि, अन्त्यवर्णानि संहननानि, प्रशस्तविहायोगतिः, सूक्ष्मम्, साधारणम्, अपर्याप्तम्, स्थिरशुभसुभगसुखरादेययशःकीर्तितीर्थकरो चै गोत्राणि च । तत्र बन्धोत्कृष्टानां मतिज्ञानावरणीयादि मिथ्यात्वषोडशकषायनरकद्विकादीनां यथाक्रमं त्रिंशत्सप्ततिचत्वारिंशद्विंशतिसागरोपमकोटाकोटीस्थितिकानां 'ज्येष्ठः' - उत्कृष्टः स्थितिसंक्रमः 'आलिगदुगह' त्ति - आवलिकाद्विकहीनः । तथाहि स्थितिर्बद्धा सती बन्धावलिकायामतीतायां सत्यां संक्रामति । तत्राप्युदयावलिका सकलकरणायोग्येति कृत्वोदयावलिकात उपरितनी । ततो बन्धोत्कृष्टानामुत्कृष्टः स्थि
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy