SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ (उ०) तदेवमुक्तः प्रकृतिसंक्रमः। सम्प्रति स्थितिसंक्रमाभिधानावसरः। तत्र चैतेाधिकाराः, तद्यथा-भेदो विशेषलक्षणं उत्कृष्ट-1 स्थितिसंक्रमप्रमाणं जघन्यस्थितिसंक्रमप्रमाणं साद्यादिपरूपणा स्वामित्वप्ररूपणा चेति । तत्र भेदविशेषलक्षणे प्रतिपादयन्नाह-इह | 'मुलुत्तरपगइओ' इत्यत्र "हात्प्रेक्षते" इत्यत्रेच ल्यब्लोपे पञ्चमी । ततोऽयमर्थः-'हि'-स्फुटं मूलप्रकृतीरष्टसङ्ख्याः उत्तरप्रकृतीसवाष्टपञ्चाशदधिकशतसङ्ख्याः आश्रित्य या स्थितिरुर्तिता-हस्वीभूता सती दीर्घाकृता, अपवर्तिता वा-दीघीभृता सती हस्वी कृता, अन्यां वा प्रकृति नीता पतद्ग्रहप्रकृतिस्थितिषु नीत्वा निवेशितेत्यर्थः, स स्थितिसंक्रम उच्यते । इदमुक्तं भवति-द्विविधः | स्थितिसंक्रमः-मूलप्रकृतिविषय उत्तरप्रकृतिविषयश्च । आद्योऽष्टधा, तद्यथा ज्ञानावरणीयस्य यावदन्तरायस्य । द्वितीयोऽष्टपञ्चाशदधिकशतधा, तद्यथा-मतिज्ञानावरणीयस्य यावद्वीर्यान्तरायस्य । तदेवं 'मूलत्तरपगईओ' इत्यनेन भेद उक्तः । 'उबट्टिया व' इत्यादि| ना तु विशेषलक्षणं त्रिप्रकारम् । तत्र कर्मपरमाणूनां ह्रस्वस्थितिकालतामपनीय दीर्घकालतया व्यवस्थापनमुद्वर्तना, तेषामेव दीर्घस्थितिकालतामपनीय हस्वस्थितिकालतया व्यवस्थापनमपवर्तना, संक्रम्यमाणप्रकृतिस्थितीनां पतद्ग्रहप्रकृतौ नीत्वा निवेशनं प्रकृत्यन्तरनयनम् । स्थितीनां चान्यत्र निवेशनं स्थितियुक्तपरमाणुद्वाराऽवसेयम् , स्थितेः साक्षादन्यत्र नेतुमशक्यत्वात् । इदं च विशेषलक्षणं सामान्यलक्षणमनुरुध्यैव प्रवर्तते, न तु तदपोद्यापि, ततो मूलप्रकृतीनां मिथः संक्रमप्रतिषेधात्तासां प्रकृत्यन्तरनयनलक्षणः स्थितिसंक्रमो न भवति, किंतु द्वावेवोद्वर्तनापवर्तनालक्षणी संक्रमी, उत्तरप्रकृतीनां तु त्रयोऽपि संक्रमाः संभवन्तीति द्रष्टव्यम् ॥२८॥ इदाथि उकस्सट्ठितिसंकमपरिमाणणिरूवणत्थं भण्णइतीसा सत्तरि चत्तालीसा वीसुदहिकोडिकोडीणं । जेट्टो आलिगदुगहा सेसाण वि आलियतिगूणो ॥२९॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy