SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः । ॥५४॥ द्वितिसंकर्ममि उच्चट्टणादि तिणि वि संभवंति । गतं विसेसलक्खणं ॥ २८ ॥ ( मलय ० ) - तदेवमुक्तः प्रकृतिसंक्रमः । सम्प्रति स्थितिसंक्रमाभिधानावसरः । तत्र चैतेऽर्थाधिकाराः । तद्यथा - भेदो विशेषलक्षणं उत्कृष्टस्थितिसंक्रमणप्रमाणं जघन्यस्थितिसंक्रमप्रमाणं साद्यादिप्ररूपणा स्वामित्वप्ररूपणा चेति । तत्र भेदविशेषलक्षणयोः प्रतिप्रादना|र्थमाह – 'ठिइ 'ति । इह 'मृलुत्तरपगइउ' इत्यत्र षष्ठयर्थे पञ्चमी । ततोऽयमर्थः - 'हि' स्फुटं या स्थितिर्मूलप्रकृतीनामष्टसंख्यानामुत्तरप्रकृतीनां वाऽष्टपञ्चाशदधिकशतसंख्यानां संबन्धिनी 'उद्वर्तिता' ह्रस्वीभूता सती दीर्घीकृता, 'अपवर्तिता वा' दीर्घीभूता सती हस्वीकृता,. 'अन्यां वा प्रकृतिं नीता' पतद्ग्रहप्रकृतिस्थितिषु मध्ये नीत्वा निवेशिता स स्थितिसंक्रम उच्यते । एतदुक्तं भवति - द्विविधः स्थितिसंक्रमो मूलप्रकृतिस्थितिसंक्रम उत्तरप्रकृतिस्थितिसंक्रमच । तत्र मूलप्रकृतिस्थितिसंक्रमोऽष्टप्रकारः, तद्यथा ज्ञानावरणीयस्य यावद - न्तरायस्य । उत्तरप्रकृतिस्थितिसंक्रमोऽष्टपञ्चाशदधिकशतधा । तद्यथा मतिज्ञानावरणीयस्य श्रुतज्ञानावरणीयस्य यावद्वीर्यान्तरायस्य । 'तदेवं मूलत्तरपगईउ' इत्यनेन भेद उक्तः । 'उवट्टिया व' इत्यादिना तु विशेषलक्षणं त्रिप्रकारम् । तत्र कर्मपरमाणूनां हस्वस्थितिकालतामपहाय दी कालतया व्यवस्थापनमुद्वर्तना । कर्मपरमाणूनामेव दीर्घस्थितिकालतामपहाय ह्रस्वस्थितिकालतया व्यवस्थापनमपवर्तना । यत्पुनः संक्रम्यमाणप्रकृतिस्थितीनां पत्तग्रहप्रकृती नीत्वा निवेशनं तत्प्रकृत्यन्तरनयनम् । स्थितीनां चान्यत्र निवेशनं स्थितियुक्तानां परमा नामवसेयम् स्थितेत्यत्र नेतुमशक्यत्वात् । इदं च विशेषलक्षणं सामान्यलक्षणे सत्येवावगन्तव्यम्, न सर्वथा तदपवादेन, तेन मूलप्रकृतीनां परस्परं संक्रमप्रतिषेधात् तासामन्यप्रकृत्यन्तरनयनलक्षणः स्थितिसंक्रमो न भवति, किन्तु द्वावेव उद्वर्तनापवर्तन लक्षण संक्रमों, उत्तरप्रकृतीनां तु त्रयोऽपि संक्रमा द्रष्टव्याः ॥ २८ ॥ Vi संक्रमकरणे स्थितिसं क्रमः । 114811
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy