SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ऽन्यत्र संक्रमयितुं शक्यते, अमूर्त्तत्वात् । अनुभागोऽपि रस उच्यते, स च परमाणूनां गुणः, गुणश्च गुणिनमन्तरेणान्यत्र नेतुमशक्यः, गुणिनां च परमाणूनां संक्रमे प्रदेशसंक्रम एवं प्रसज्यत इति न कश्चिदन्यः संक्रमो युक्त इति । अत्रोच्यते न हि वयं | स्वभावस्थितिरसा विवक्षितपरमाणुभ्यः समाकृष्य परमाण्वन्तरेषु प्रक्षिप्यन्ते इत्येवं प्रकृतिसंक्रमादीनाचक्ष्महे, येन पूर्वोक्तदोषावकाशः स्यात् किं तु स्वभावादित्रयाधारभूतपरमाणुरूपप्रदेशेषु परप्रकृतिषु संक्रम्यमाणेषु संक्रम्य च परप्रकृतिरूपतामापाद्यमानेषु पतन प्रकृतिरूपतापादनं प्रकृतिसंक्रमः पतग्रहप्रकृतिरूपतयैव नियतकालविशिष्टस्यावस्थानस्यापादनं स्थितिसंक्रमः, पतग्रहप्रकृत्यनुयायिरसापादनं त्वनुभागसंक्रमः परमाणूनां च प्रक्षेपणं प्रदेशसंक्रम इत्येवं स्वपरिणामविशेषरूपा एव प्रकृतिसंक्रमादय इष्यन्त इत्यदोष इति । अत एवैते परस्पराविनाभाविनः । तदुक्तं पञ्चसंग्रहमूलटीकायां - 'अभी प्रकृतिस्थित्यनुभाग| प्रदेशेषु संक्रमा बन्धा उदया वा समकाले प्रवर्त्तन्ते इति । केवलं युगपदभिधातुं न शक्यन्ते, वाचः क्रमवर्त्तित्वात् । ततो यो यदा संक्रमे वक्तुमिष्यते स तदानीं बुद्धया पृथक्कृत्वा सप्रपञ्चमुच्यत इति सर्वमुपपन्नम् । ननु दलिकरसानां धर्मिद्वारा पृथिवीजलयोरिव मूर्त्तत्वादन्यभाव संक्रमणमस्तु, कालश्वामूर्त्त इति तस्यान्यभावसंक्रमणमयुक्तम्, मैवम्, न खलु कालस्य संक्रमणमस्माभिरिष्यते, किं तु स्थितेः, स्थितिथाप्रच्युतिलक्षणमत्रस्थानम्, तच्च पूर्वमन्यप्रकृतिरूपतयाऽऽसीत्, सम्प्रति त्वन्यप्रकृतिरूपतया यदवस्थानापादनं स स्थितिसंक्रमः । न चायमनुपपन्नः, प्रत्यक्षसिद्धत्वात् । तथाहि तृणादिपरमाणवः पूर्वं तृणादिरूपत्वेन स्थिताः, ततो लवणाकरेषु निपतिताः कालक्रमेण लवणरूपतयाऽवतिष्ठन्त इति । अस्तु वा स्थितिकालस्यैव संक्रमणम्, तदपि ऋतुसंक्रमणवददुष्टमेव । यथा हि वृक्षादिषु | स्वभावतः क्रमेण, देवतादिप्रयोग तो युगपदपि वा सर्वेऽपि ऋतवः संक्रामन्ति, तत्तत्कार्य पुष्पफलादिदर्शनात्, तथेहापि जीवप्रयोगतः कर्म| परमाणुषु सातादिरूपताहेतुं कालमुपमृद्यासातादिरूपताहेतुकालसंक्रमान्न विरुध्यत इत्यदोष इति कृतं प्रसङ्गेन ||२७||
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy