SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४७॥ | पराघातोच्छ्वासप्रशस्त विहायोगतित्रसबाद रपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुस्वरादेययशःकीत्ययशः कीर्त्यन्यतरल| क्षणामष्टाविंशतिं बघ्नतो द्वयुत्तर शतसत्कर्मणो द्वयुत्तरशतमष्टाविंशतिपतग्रहे संक्रामति । तथा मनुष्यस्य तीर्थकरनामसत्कर्मणः पूर्वमेव नरके बद्धायुष्कस्य सतो नरकाभिमुखस्य सतो मिथ्यात्वं प्रपन्नस्य नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बध्नतः षण्णवतिसत्कर्मणोऽष्टा| विंशतिपतद्ग्रहे षण्णवतिः संक्रामति । यथा द्वगुत्तरशतस्य भावना कृता तथा पञ्चनवतेरपि भावना कार्या । केवलं द्वयुत्तरशतस्थाने | पञ्चनवतिरित्युच्चारणीयम् । तथा मिथ्यादृष्टेत्रिनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बध्नतो वैक्रियसप्तक देव गतिदेवानुपूर्वीणां बन्धावलिकायाः परतो वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति । अथवा पञ्चनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामष्टाविं | शतिंबध्नतो वैक्रि यसप्तकदेवगतिदेवानुपूर्वीणां बन्धावलिकायाः परतो वर्तमानस्य त्रिनयतिरष्टाविंशतौ संक्रामति । अथवा पञ्चनवतिसत्क|र्मणो देवगतिप्रायोग्यां पूर्वोक्तामेवाष्टाविंशतिं वध्नतो देवगतिदेवानुपूव्योर्बन्धावलिकाया अभ्यन्तरे वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति । त्रिनवतिसत्कर्मणो मिथ्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बध्नतो नरकगतिनरकानुपूर्वी वक्रियसप्तकानां बन्धावलिकायाः परतो वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति । अथवा पञ्चनवतिसत्कर्मणो मिथ्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बध्नतो नरकगतिनरकानुपूव्याबन्धावलिकाया अभ्यन्तरे वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति । तथा त्रिनवतिसत्कर्मणो मिथ्यादृष्टे देवगतिप्रायोग्यामष्टाविंशतिं बध्नतो देवगतिदेवानुपूर्वीवैक्रिय सप्तकानां बन्धावलिकाया अभ्यन्तरे वर्तमानस्य चतुरशीतिरष्टाविंशतौ संक्रामति । अथवा त्रिनवतिसत्कर्मणो मिथ्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बघ्नतो नरकगतिनरकानुपूर्वी| वैक्रि यसप्तकानां बन्धावलिकाया अभ्यन्तरे वर्तमानस्य चतुरशीतिरष्टाविंशतौ संक्रामति । पविंशत्यादिपतद्ग्रहेषु संक्रमस्थानान्याह Ra संक्रमकरणे प्रकृतिसंक्रमः । ॥ ४७ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy