________________
1) मनुजापूयोरुद्वलितयोद्वर्थशीतिः । अथवा षण्णवतिः प्रागुक्तासु त्रयोदशसु प्रकृतिषु क्षीणासु यशाकीतौ चापनीतायां यशीतिः। कर्मप्रकृतिः सैव तीर्थकररहिता एकाशीतिः । एतानि नाम्नः संक्रमस्थानानि ॥ २३॥
संक्रमकरणे | (उ०)-तदेवमुक्तो मोहनीयस्य प्रपञ्चतः संक्रमपतद्ग्रहविधिः। सम्प्रति नामकर्मणोऽभिधीयते-तत्र नामकर्मणो द्वादश सत्तास्थाना- प्रकृतिसं॥४०॥ |नि। तद्यथा-व्युत्तरशतं द्वयुत्तरशतं षण्णवतिः पञ्चनवतिः, एतत्प्रथमसंज्ञं सत्ताचतुष्कम् । तत्र सकलप्रकृतिसमुदायस्युत्तरशतम् , तदेव ती
क्रमः। र्थकररहितं द्वयुत्तरशतम् , त्र्युत्तरशतमेवाहारकसप्तकरहितं पण्णवतिः, द्वथुत्तरशतमाहारकसप्तकरहितं पञ्चनवतिः । क्षपकश्रेण्यां प्रथम| सत्ताचतुष्कानरकगतिनरकानुपूर्वीतिर्यग्गतितिर्यगानुपूर्व्याद्यजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपोद्योतलक्षणासु त्रयोदशसु प्रकृतिषु क्षीणासु यथाक्रमं द्वितीयं सत्ताचतुष्कं नवतिरेकोननवतिस्त्र्यशीतिद्वर्थशीतिश्च । तथा पञ्चनवतेर्देवद्विके उद्वलिते त्रिनवतिः । तस्या अपि || वैक्रियसप्तकनरकद्विकयोरुद्वलितयोश्चतुरशीतिः । अस्या अपि मनुजद्विके उद्वलिते द्वयशीतिः । एतच्च सत्तात्रिकमध्रुवसंज्ञम् । यद्यपीह द्वितीयसत्ताचतुष्के च द्वथशीतिर्भिन्नभिन्नतया व्यवस्थिता तथापि संख्यातोल्यादेकमेवेदं सत्तास्थानं गण्यते । तदेवं संजातेषु दशसु सत्तास्थानेषु द्वितीयसत्ताचतुष्कस्थे नवतित्र्यशीतिरूपे सत्तास्थाने संक्रमे न प्राप्येते, शेषाणि तु सर्वाणि प्राप्यन्त इत्यष्टौ संक्रम| स्थानानि भवन्ति । नवाष्टरूपे चान्ये द्वे सत्तास्थाने अयोग्यवस्थाचरमसमये प्राप्येते, ततो द्वादश सत्तास्थानानि पूर्यन्ते, परं ते संक्रमे न प्राप्येते, अयोग्यवस्थायां बन्धाभावेन पतद्ग्रहाभावात् वध्यमानप्रकृतेरेव पतद्ग्रहत्वात्पतद्ग्रहे सत्येव च संक्रमसंभवात् । सत्तास्था
॥४०॥ | नबाह्यानि च चत्वार्यन्यानि संक्रमस्थानानि भवन्ति–एकोत्तरशतं चतुर्नवतिरष्टाशीतिरेकाशीतिश्च ।। __इदाणिं पडिग्गहष्टाणाणि