SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ नियमाच्च दृष्टौ द्विविधायां कृतायां सम्यक्त्वसम्यग्मिथ्यात्वयोरेव सतोरित्यर्थः ॥१५॥ तेरसगणवगसत्तगसत्तरसगपणगएक्कवीसासु । एक्कावीसा संकमइ सुद्धसासाणमीसेसु ॥ १६ ॥ | (मलय०)—'तेरस' त्ति । त्रयोदशकनवकसप्तकसप्तदशकपञ्चकैकविंशतिरूपेषु षट्सु पतद्ग्रहेष्वेकविंशतिः संक्रामति । केषु जीवेष्वि| त्याह-'शुद्धसासादनमिश्रेषु' शुद्धेषु-विशुद्धदृष्टिषु अविरतसम्यग्दृष्टयादिषु, सासादनमिश्रेषु । तत्र त्रयोदशके देशविरतस्य, नवके प्रमत्ताप्रमत्तयोः, सप्तके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्या वर्तमानस्य, सप्तदशकेऽविरतसम्यग्दृष्टर्मिश्रदृष्टेश्च, पञ्चके क्षायिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य क्षपकश्रेण्यां वा, एकविंशतौ सासादनस्य । इह यैराचार्यश्चतुर्विंशतिसत्कर्मा सन्नुपशमश्रेणीतः प्रतिपतन् मिथ्यात्वाभिमुखः सासादन इष्यते तन्मते सासादनस्यैकविंशतावेकविंशतिः संक्रमेऽभिहिता, अन्यथा पुनरनन्तानुबन्ध्युदयसहितस्य सासादनस्यैकविंशतौ पञ्चविंशतिरेव संक्रमे प्राप्यते । सा च प्रागेवोक्ता ॥१६॥ (उ०) त्रयोदशकनवकसप्तकसप्तदशकपश्चकैकविंशतिरूपेषु षट्सु पतद्ग्रहेष्वेकविंशतिः संक्रामति । केष्वित्याह-'शुद्धसासादनमिश्रेषु' शुद्धेषु-विशुद्धदृष्टिष्वविरतसम्यग्दृष्टयादिषु, सासादनमिश्रेषु-द्वितीयतृतीयगुणस्थानवर्तिषु । तत्र त्रयोदशके देशविरतस्य, नवके प्रमत्ताप्रमत्तयोः, सप्तके औपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य, सप्तदशकेविरतसम्यग्दृष्टेर्मिश्रदृष्टेश्च, पञ्चके क्षायिकस म्यग्दृष्टरुपशमश्रेण्यां क्षपक श्रेण्यां वा वर्तमानस्य, एकविंशतो सासादनस्य । इह यन्मते चतुर्विंशतिसत्कर्मोपशमश्रेणीतः पतन्मिथ्या। त्वाभिमुखः सासादन इष्यते तन्मते सासाद्नस्यैकविंशतावेकविंशतिः संक्रमेऽभिहिता, अन्यथा तु सासादनेऽनन्तानुबन्ध्युदयसाहि त्यनियमात् तत्रैकविंशती पञ्चविंशतिरेव संक्रमे प्राप्यत इति तथैव प्रागुक्तम् ॥१६॥ नयोः, सप्तके आतिसम्यग्दृष्टयादिषु, मतिरूपेषु पसु पता
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy