SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ (उ०) सम्प्रति यथोक्तपतद्ग्रहेषु संक्रमस्थानसंकलनामाह-द्वाविंशतौ पश्चदशके एकादशके एकोनविंशती चेति चतुर्दा स्थानेषु पतद्ग्रहलक्षणेषु षड्विंशतिसप्तविंशत्योः संक्रमो भवति । तत्र द्वाविंशतौ मिथ्यादृष्टेः, पञ्चदशके देशविरतस्य, एकादशके प्रमत्ताप्रमत्तयोः, एकोनविंशतावविरतसम्यग्दृष्टेः ॥१२॥ सत्तरसइक्कवीसासु संकमो होइ पन्नवीसाए । णियमा चउसु गईसुं णियमा दिट्ठी कए तिविहे ॥१३॥ | (मलय०)–'सत्तरस' त्ति । सप्तदशकैकविंशत्योः पञ्चविंशतः संक्रमो भवति । तत्र सप्तदशके मिश्रदृष्टेः, एकविंशतो मिथ्यादृष्टेः | ४सासादनस्य च । अयं च पञ्चविंशतेः सप्तदशकैकविंशत्योः संक्रमो नियमाच्चतसृष्वपि गतिषु प्राप्यते । नियमाच्च सप्तदशके सासाद नैकविंशतौ च पञ्चविंशतेः संक्रमः 'त्रिविधायां' त्रिप्रकारायां दृष्टौ-दर्शनमोहनीये कृतायां वेदितव्यः-त्रिविधे दर्शनमोहनीये सति वेदितव्य इत्यर्थः। मिथ्यादृष्टेस्त्वेकविंशतौ पञ्चविंशतिसंक्रमोऽनादिमिथ्यादृष्टेरपि भवति । 'कए तिविहे' इति पुंस्त्वनिर्देशः प्राकृतत्वात् ।।१३॥ G (उ०) सप्तदशैकविंशत्योः पञ्चविंशतेः संक्रमो भवति । तत्र सप्तदशके मिश्रदृष्टेरेकविंशतौ च मिथ्यादृष्टेः सासादनस्य च । अयं च पञ्चविंशतेः सप्तदशैकविंशत्योः संक्रमो नियमाच्चतसृष्वपि गतिषु प्राप्यते, नियमाच्च दृष्टौ-दर्शनमोहनीयप्रकृतौ त्रिविधायां कृतायां वेदितव्यः । 'कए तिविहे' ति पुंस्त्वनिर्देशः प्राकृतत्वात् । एतच्च सप्तदशके सासादनकविंशतौ च पञ्चविंशतिसंक्रममाश्रित्य नेयम् , त्रिधाकृतदर्शनमोहनीयस्यैव मिश्रसासादनत्वसंभवात् । मिथ्यादृष्टेस्त्वेकविंशतौ पञ्चविंशतिसंक्रमोनादिमिथ्यात्ववतोऽपि | भवतीत्यवसेयम् ॥१३॥ OCEROSAROGGC
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy