SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ क्षीणेष्वन्तर्मुहतं यावत् त्रयोदशाना, ततोऽन्तरकरणे कृते संज्वलनलोभस्यासक्रम इति द्वादशानां तस्मिन्नेव पञ्चकपतद्ग्रहेऽन्तर्मुहर्त | यावत्संक्रमः । ततो नपुंसकवेदे क्षीणे एकादशानां तावत्कालमेव । ततः स्त्रीवेदे क्षीणे दशानामन्तर्मुहूर्तमेव तस्मिन्नेव पश्चकपतद्ग्रहे संक्रमः । ततः पुरुषवेदस्य प्रथमस्थितौ समयोनावलिकाद्विकशेषायां पुरुषवेदस्यापतद्ग्रहतेति शेषे चतुष्करूपे पतद्ग्रहे तासामेव RI दशानां समयोनमावलिकाद्विकं यावत्संक्रमः। ततो नोकषायषद्कक्षये शेषाणां चतसृणां प्रकृतीनां तस्मिन्नेव चतुष्करूपे पतद्ग्रहे संक्रमः । ततः पुरुषवेदः क्षीयते, तत्समये च संज्वलनक्रोधस्यापि पतद्ग्रहता न भवतीति तदुत्सारणे शेषासु तिसृषु तिसृणां संक्रमः, Neस चान्तर्मुहतं यावत् । ततः समयोनावलिकाद्विकेन कालेन संज्वलनक्रोधः क्षीयते, तत्समये च संज्वलनमानस्यापि पतद्ग्रहता लान भवतीति शेषयोयोः प्रकृत्योर्द्वयोरेव संक्रमः, स चान्तर्मुहूर्त यावत् । ततः समयोनावलिकाद्विकेन कालेन संज्वलनमानोऽपि क्षीयते, तत्समये एव च संज्वलनमायायाः पतद्ग्रहता त्यज्यते । तत एकस्यामेव संज्वलनलोभलक्षणायां प्रकृतौ संज्वलनमायालक्षगैका प्रकृतिः संक्रामति, सा चान्तर्मुहूर्त यावत् । तत आवलिकाद्विकेन कालेन संज्वलनमायापि क्षीयते । तत ऊध्वं न किमपि क्वापि १५ संक्रामति । एतेषु च पतद्ग्रहेषु एकविंशतिरूपः पतद्ग्रहः साद्यादिरूपतया चतुर्विधः । तथाहि-सादिमिथ्यादृष्टेः सम्यक्त्वसम्यग्मिथ्यात्वयोरुद्वलितयोः सतोः षड्विंशतिसत्कर्मण एकविंशतिरूपः पतद्ग्रहः सादिः । अनादिमिथ्यादृष्टेः षड्विंशतिसत्कर्मणोऽनादिः। ध्रुवाध्रुवावभव्यभव्यापेक्षया । शेषास्तु पतद्ग्रहाः कादाचित्कत्वादेव साद्यध्रुवाः ॥११॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy