SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ततः संज्वलनमाने उपशान्ते सप्त, ताश्च सप्त चतुष्करूपे पतद्ग्रहेऽन्तर्मुहूर्त कालं यावत्संक्रामन्ति । ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिकात्रिकशेपायां संज्वलनमायापि न पतद्ग्रहीभवतीति चतुष्कात्तदपनपने शेषे त्रिकरूपे पतद्ग्रहे पूर्वोक्ताः सप्त | संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपमायाद्विके उपशान्ते शेषाः पञ्च प्रकृतयखिकरूपे पतद्ग्रहे संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततः संज्वलनमायायामुपशान्तायां शेषाश्चतस्रः संक्रामन्ति, ताश्च तावद्यावदन्तर्मुहूर्तम् । ततोनिवृत्तिवादरसंपरायचरमसमयेऽप्रत्याख्यानपत्याख्यानावरणलक्षणलोभद्विके उपशान्ते शेषे मिथ्यात्वसम्यग्मिथ्यात्वलक्षणे द्वे एव प्रकृती संकामतः । अनयोश्च संक्रमो न संचलनलोभे संभवति, दर्शनमोहनीयचारित्रमोहनीययोः परस्पर संक्रमप्रतिषेधात् , ततस्तस्यापि पतद्ग्रहता न भवतीति द्वयोरेव ते द्वे संक्रामतः । तत्र मिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोयोः संक्रामति, सम्यग्मिथ्यात्वं तु सम्यक्त्व एवेति विवेकः । तदयमापशमिकसम्यग्दृष्टरुपशमश्रेण्यां संक्रमपतद्ग्रहविधिरुक्तः। ____ अथ क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां संक्रमपतगृहविधिरुच्यते-तत्र क्षीणसप्तक एकविंशतिसत्कर्मा सन् क्षायिकसम्यग्दृष्टिरुपशमश्रेणिं प्रतिपद्यते । तस्य चान्तर्मुहूर्त कालं यावत्पुरुषवेदसंज्वलनचतुष्टयरूपे पश्चकपतगृहे एकविंशतिः संक्रामति। ततोऽन्तरकरणे कृते सति । संज्वलनलोभस्य संक्रमो न भवतीत्येकविंशतेस्तस्मिन्नपनीते शेषा विंशतिः पञ्चकपतगृहे संक्रामति, सा चान्तर्मुहत्तं कालं यावत् । ततो 2 | नसकवेदे उपशान्ते एकोनविंशतिः, साप्यन्तर्मुहूर्त कालं यावत् । ततः स्त्रीवेदे उपशान्ते शेषा अष्टादश प्रकृतयस्तस्मिन्नेव पश्चकपतद्ग्रहे संक्रामन्ति, ता अप्यन्तर्मुहूर्त कालं यावत् । ततः पुरुषवेदस्य प्रथमस्थितौ समयोनावलिकाद्विक शेषायामपतगृहीभवतीति पुरुषवेदेऽप-12 नीते चतुष्करूपे पतद्हे ता एवाप्टादश प्रकृतयः संक्रामन्ति । ततो नोकषायपदके उपशान्ते शेषा द्वादश प्रकृतयस्तस्मिन्नेव चतुष्क
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy