________________
कर्मप्रकृतिः
॥२६॥
पतद्ग्रहभावे लभ्यते इत्येकविंशतिरविरतादीनां यथासङ्ख्यं सप्तदशत्रयोदशनवकरूपेषु पतद्ग्रहेषु संक्रामति । । अथौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य संक्रममाश्रित्य पतद्ग्रहविधिरुच्यते-तत्र चतुर्विंशतिसत्कर्मणः सम्यक्त्वं मिथ्या-शासक्रमकरण त्वसम्यग्मिथ्यात्वयोः पतद्ग्रह एवेति तत्त्यागे शेषा त्रयोविंशतिः पुंवेदसंज्वलनचतुष्टयसम्यक्त्वसम्यग्मिथ्यात्वरूपे सप्तकपतद्ग्रहे |
प्रकृतिसं
क्रमः। संक्रामति । तस्यैवोपशमश्रेण्यामन्तरकरणे कृते संज्वलनलोभस्य न संक्रम इति तत्यागे शेषा द्वाविंशतिः प्रागुक्त एव सप्तकपतद्ग्रहे संक्रामति । तस्यैव नपुंसकवेदे उपशान्ते सप्तकपतद्ग्रहे एकविंशतिः । ततः स्त्रीवेदे उपशान्ते विंशतिः, ततः पुरुपवेदस्य प्रथमस्थितौ समयोनावलिकाद्विकशेषायां पुरुषवेदः पतद्ग्रहो न भवति, ततः प्रागुक्तात्सप्तकात्पुरुषवेदेऽपनीते शेषे षदकरूपे पतद्ग्रहे प्रागुक्ता विंशतिः संक्रामति । ततः षट्सु नोकषायेषूपशान्तेषु शेषाश्चतुर्दश प्रकृतयः प्रागुक्ता एव षट्करूपे पतद्ग्रहे संक्रामन्ति, ताश्च तावसंक्रामन्ति यावत्समयोनमावलिकाद्विकम् । ततः पुरुषवेदे उपशान्ते शेपास्त्रयोदश षट्करूपे पतद्ग्रहे संक्रामन्ति, ताश्च तावद्यावदन्तमुहूर्तम् । ततः संज्वलनक्रोधस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संचलनक्रोधोऽपि पतद्ग्रहो न भवतीति प्रागुक्तपद्कात्तदपनयने शेषे पञ्चकरूपपतद्ग्रहे ता एव त्रयोदश प्रकृतयः संक्रामन्ति । ततोऽप्रत्याख्यानप्रत्याख्यानावरणक्रोधद्विके उपशान्ते शेषा एकादश प्रागुक्त एव पश्चकपतद्ग्रहे संक्रामन्ति, ताश्च तावद्यावत्समयोनावलिकाद्वयम् । ततः संचलनक्रोधे उपशान्ते शेषा दश प्रकृतयस्तस्मिन्नेव पञ्चकपतद्ग्रहे तावत्संक्रामन्ति यावदन्तर्मुहर्तम् । ततः संज्वलनमानस्य प्रथमस्थितौ समयोनावलिकात्रिक शेषायां । |संज्वलनमानस्याप्यपतद्ग्रहीभाव इति पश्चात्तदपनयने शेषे चतुष्करूले पतद्ग्रहे ता एव दश प्रकृतयः संक्रामन्ति, ताश्च तावद्याव
॥२६॥ | समयोनावलिकाद्वयम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मानद्वये उपशान्ते शेषा अष्टौ प्रकृतयश्चतुष्करूपे एव पतद्ग्रहे संक्रामन्ति ।।।
POSMOSTOMACHAKROACC