SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ | पतगृहमात्रतया वर्जयित्वा शेषास्त्रयोविंशतिप्रकृतयः प्रागुक्तद्वाविंशतौ संक्रामन्ति । तदेवं मिथ्यादृष्टाविंशतिपतद्ग्रहे सप्तविंशतिषड्वि | शतित्रयोविंशतिरूपास्त्रयः संक्रमा लभ्यन्ते, एकविंशतिपतद्ग्रहे चैकः पञ्चविंशतिसंक्रमः, शेषः संक्रमः पतद्ग्रहो वा मिथ्यादृष्टेन भवति । सासादनसम्यग्दृष्टस्तु शुद्धदृष्टित्वाभावाद् दर्शनमोहनीयत्रयस्य संक्रमाभाव इत्यस्य सर्वदैकविंशतिरूपे पतद्ग्रहे पञ्चविंशतिरेव संक्रामति । सम्यग्मिध्यादृष्टेरपि शुद्धदृष्टित्वाभावाद् दर्शनत्रयसंक्रमाभाव इत्यष्टाविंशतिसत्कर्मणः सप्तविंशतिसत्कर्मणो वा तस्य पञ्चविंशतिः, चतुर्विशतिसत्कर्मणस्तु तस्यैकविंशतिदशकपायपुरुवेदभयजुगुप्सान्यतरयुगललक्षणसप्तदशप्रकृतिसमुदायरूपे पतद्ग्रहे संक्रामति । अविरतदेशविरतप्रमत्ताप्रमत्तेषु संक्रमतौल्याद्युगपत्पतद्हा उच्यन्ते । तत्रौपशमिकसम्यग्दृष्टीनामेतेषां सम्यक्त्वलाभप्रथमसमयादारभ्य यावदावलिकामात्रं तावत् सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्हतैव भवति, न संक्रम इति शेषा पर्विंशतिरविरतानां द्वादशकषायपुरुषवेदभयजुगुप्सान्यतरयुगलसम्यक्त्वसम्यग्मिथ्यात्वरूपे एकोनविंशतिपतद्ग्रहे, देशविरतानामन्त्याष्टकपायपुरुषवेदभयजुगुप्सान्यतर युगलसम्यक्त्वसम्यग्मिथ्यात्वलक्षणे पञ्चदशपतद्ग्रहे, प्रमत्ताप्रमत्तानां संज्वलनचतुष्टयपुरुषवेदसम्यक्त्वसम्यग्मिथ्यात्वभयजुगुप्साऽन्य16 तरयुगलरूपे एकादशपतद्ग्रहे संक्रामति । तेषामेवाविरतसम्यग्दृष्टयादीनामावलिकायाः परतः सम्यग्मिथ्यात्वं संक्रमे पतद्ग्रहे चY लभ्यत इति सप्तविंशतिः प्रागुक्तेषु त्रिषु पतद्ग्रहेषु संक्रामति । तेषामेवाविरतसम्यग्दृष्टयादीनामनन्तानुबन्ध्युद्वलने चतुर्विंशतिसत्कर्मणां ) क्षायोपशमिकसम्यक्त्ववतां सम्यक्त्वं पतद्ग्रह एवेति कृत्वा शेषा त्रयोविंशतिः प्रागुक्तेष्वेकोनविंशत्यादिषु त्रिषु पतद्ग्रहेषु संक्रामति । ततो मिथ्यात्वे क्षपिते सति सम्यग्मिथ्यात्वं न पतद्ग्रहीभवति, मिथ्यात्वं च न संक्रमप्रतियोगी भवतीति शेषा द्वाविंशतिरविरतदेशविरतसंयतानां यथासङ्ख्यमष्टादशचतुर्दशदशरूपेषु पतद्ग्रहेषु संक्रामति । ततः सम्यग्मिथ्यात्वे क्षपिते सम्यक्त्वं न संक्रमे नापिस खलवार
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy