SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ समयोनावलिकाद्विकेन कालेन संज्वलनमानोऽपि क्षीयते । तत्समयमेव च संज्वलनमायाया अपि पतद्ग्रहता न भवति । तत एककर्मप्रकृतिः16 स्यामेव संज्वलनलोभलक्षणायां प्रकृतौ संज्वलनमायालक्षणा एका प्रकृतिः संक्रामति, सा चान्तर्मुहूर्त कालं यावत् । तत आवलिकाद्वि- संक्रमकरणे ISI केन कालेन संज्वलनमायापि क्षीयते । तत ऊवं न किमपि क्वापि संक्रामति ॥११॥ प्रकृतिसं॥२५॥ (उ०) कृता मोहनीये संक्रमासंक्रमस्थानप्ररूपणा । अथ पतग्रहापतद्ग्रहस्थानप्ररूपणार्थमाह-मोहनीये बन्धस्थानानि दशोक्तानि द्वाविंशतिरेकविंशतिः सप्तदश त्रयोदश नव पञ्च चतस्रस्तिस्रो द्वे एका च । तत्र पतद्ग्रहस्थानानि षोडश द्वादशाष्टौ विंशतिस्त्रयोविं-12 शत्यादयश्च षट्-त्रयोविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिश्चेत्येतानि स्थानानि वर्जयित्वा शेषाण्येकद्वित्रिचतुःपञ्चपट्सप्तनवदशैकादशत्रयोदशचतुर्दशपञ्चदशसप्तदशाष्टादशकोनविंशत्येकविंशतिद्वाविंशतिलक्षणान्यष्टादश भवन्ति । तत्र मिथ्यादृष्टरष्टाविंशतिसत्कर्मणो मिथ्यात्वस्य सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्ग्रहतया त्यागे शेषाः सप्तविंशतिमिथ्यात्वषोडशकषायान्यतरवेदभयजुगुप्साहास्यरतियुगलारतिशोकयुगलान्यतरयुगललक्षणायां द्वाविंशतौ संक्रामति । तस्यैव सम्यक्त्वे उद्वलिते सप्तविंशतिसत्कर्मणो मिथ्यात्वस्य सम्यग्मिथ्यात्वपतद्ग्रहतया त्यागेन षड्विंशतिः प्रागुक्तायां द्वाविंशतौ संक्रामति । तस्यैव मिथ्यादृष्टेः सम्यग्मिथ्यात्वोद्वलनायां पड्विंशतिसत्कर्मणो मिथ्यात्वे न किमपि संक्रामतीति पतद्ग्रहत्वाद् भ्रष्टे तस्मिन् द्वाविंशतेरपनीते एकविंशतिप्रकृतिसमुदाया- | | त्मके पतद्ग्रहे पञ्चविंशतिः संक्रामति । यद्वाऽनादिमिथ्यादृष्टेः पर्विंशतिसत्कर्मणो मिथ्यात्वे न किमपि संक्रामति, न वा तत्रान्या प्रकृतिरिति संक्रमप्रतियोग्यनुयोगिभावपरिभ्रष्टे मिथ्यात्वेऽपनीते शेषा पञ्चविंशतिरेकविंशतो संक्रामति । तथा चतुर्विंशतिसत्कर्मणो मिथ्या 1 ॥२५॥ 18| त्वं गतस्य तत्प्रत्ययेन बद्धा अप्यनन्तानुबन्धिनो बन्धावलिकां यावत्संक्रमानहीं इति तान् मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः RADIOCIENCERSONS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy