SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ द्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावर गलक्षणे मायाद्विके उपशान्ते शेषास्तिस्रः प्रकृतयः संज्वलनलोभे संक्रामन्ति, ताथ तावद्यावत् समयोनमावलिकाद्विकम् । ततः संज्वलनमायायामुपशान्तायां शेषे द्वे अप्रत्याख्यान प्रत्याख्यानावरण लोभलक्षणे प्रकृती संज्वलन लोभे | संक्रामतः, ते चान्तर्मुहूर्त कालं यावत् । ततोऽनिवृत्तिवादर संपरायगुणस्थान कचरमसमये ते अप्युपशान्ते इति न किमपि संक्रामति । तदेवं क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां संक्रमपतद्ग्रहविधिरुक्तः । सम्प्रति क्षायिकसम्यग्दृष्टेः क्षपकश्रेण्यां संक्रमपतद्ग्रह विधिरभिधीयते तत्र क्षायिकसम्यग्दृष्टि रेकविंशतिसत्कर्मा क्षपकश्रेणि प्रतिपद्यते । तस्य चानिवृत्तिवादर संप रायगुणस्थानं प्राप्तस्य पुरुषवेदसंज्वलनचतुष्ट्यरूपे पञ्चकपतद्ग्रहे प्रथमत एकविंशतिप्रकृतयः संक्रामन्ति । ततोऽष्टसु कषायेषु क्षीणेषु त्रयोदश, ताश्चान्तर्मुहूर्त कालं यावत् । ततोऽन्तरकरणे कृते सति संज्वलन लोभस्य संक्रमो न भवतीति | शेषा द्वादश प्रकृतयस्तस्मिन्नेव पञ्चकपतद्ग्रहे संक्रामन्ति तावान्तर्मुहूर्तं कालं यावत् । ततो नपुंसकवेदे क्षीणे एकादश, ता अपि | अन्तर्मुहूर्तं कालं यावद् । ततः स्त्रीवेदे क्षीणे दश, ता अप्यन्तर्मुहूर्त कालं यावत् तस्मिन्नेत्र पञ्चकरूपे पतद्ग्रहे संक्रामन्ति । ततः पुरुषवेदस्य प्रथमस्थितौ समयोनावलिकाद्विकशेपायां पुरुषवेदः पतग्रहो न भवतीति पञ्चकात्तस्मिन्नपनीते शेषे चतुष्करूपे पतग्रहे ता एव दश संक्रामन्ति, ताश्रु तावद्यावत्समयोनमावलिकाद्विकम् । ततः षट्सु नोकषायेषु क्षीणेषु शेषाश्चतस्रः प्रकृतयस्तस्मिन्नेव चतुकरूपे पतद्ग्रहे संक्रामन्ति । ततः पुरुषवेद: क्षीणः । तत्समये च संज्वलनक्रोधस्यापि पतद्ग्रहता न भवतीति तस्मिन्नपगते शेषासु तिसृषु प्रकृतिषु तिस्रः प्रकृतयः संक्रामन्ति, ताश्चान्तर्मुहूर्त कालं यावत् । ततः समयोनावलिकाद्विकेन कालेन संज्वलनक्रोधः क्षीयते । तत्समये च संज्वलनमानस्यापि पतद्ग्रहता न भवतीति शेषयोर्द्वयोः प्रकृत्योद्वे प्रकृती संक्रामतः, ते चान्तर्मुहूर्तं कालं यावत् । ततः
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy