SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ पतद्ग्रहे संक्रामति, सा चान्तर्मुहूर्त कालं यावत् । ततो नपुंसकवेदे उपशान्ते एकोनविंशतिः, सापि चान्तर्मुहूर्त कालं यावत् । ततः कर्मप्रकृतिः स्त्रीवेदे उपशान्ते शेषा अष्टादश प्रकृतयस्तस्मिन्नेव पश्चकपतद्ग्रहे संक्रामन्ति, ताश्च तत्र तावत् यावदन्तर्मुहूर्तम् । ततः पुरुषवेदस्य शश संक्रमकरणे प्रथमस्थितौ समयोनावलिकाद्विकशेपायां पुरुषवेदः पतद्ग्रहो न भवतीति पश्चकात्तस्मिन्नपगते शेपे चतुष्करूपे पतद्ग्रहे ता एवाष्टादश प्रकृतिसं॥२४॥ क्रमः। प्रकृतयः संक्रामन्ति । ततः षट्सु नोकषायेधूपशान्तेषु शेषा द्वादश प्रकृतयश्चतुष्करूपे एव तस्मिन् पतद्ग्रहे संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततः पुरुषवेद उपशान्ते एकादश ताश्चतुकरूपे पतद्ग्रहे तावत्संक्रामन्ति यावदन्तर्मुहूर्तम् । ततः | संज्वलनक्रोधस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनक्रोधोऽपि पतद्ग्रहो न भवतीति चतुष्कात्तस्मिन्नपगते शेषे त्रिकरूपे | पतद्ग्रहे ताः पूर्वोक्ता एकादश प्रकृतयः संक्रामन्ति, ताश्च तावद्यावत समयोनमावलिकाद्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरण| लक्षणे क्रोधद्विके उपशान्ते शेषा नव प्रकृतयः पूर्वोक्त एव त्रिकरूपे पतद्ग्रहे संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततः | संज्वलनक्रोधे उपशान्तेऽष्टौ संक्रामन्ति, ताश्च त्रिकरूपे पतद्ग्रहे तावत्संक्रामन्ति यावदन्तर्मुहूर्तम् । ततः संज्वलनमानस्य प्रथमस्थिती | समयोनावलिकात्रिकशेषायां संज्वलनमानोऽपि पतद्ग्रहो न भवतीति त्रिकात्तस्मिन्नपनीते शेषे द्विकरूपे पतद्ग्रहे पूर्वोक्ता अष्टौ प्रकृतयः | | संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततोऽग्रत्याख्यानप्रत्याख्यानावरणलक्षणे मानद्विक उपशान्ते शेषाः पद् प्रकृतयो द्विकपतद्ग्रहे संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततः संज्वलनमान उपशान्ते पश्च संक्रामन्ति, ताश्च द्विकरूपे 3 Sपतद्ग्रहे तावत्संक्रामन्ति यावदन्तर्मुहूर्तम् । ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संचलनमायापि पतद्- ॥२४॥ १८ ग्रहो न भवतीति द्विकात्तस्यामपगतायां शेषे संज्वलनलोभ एवैकस्मिस्ताः पञ्च प्रकृतयः संक्रामन्ति, ताश्च तावद्यावत् समयोनावलिका जा
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy