SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ नोऽपि पतद्ग्रहो न भवतीति पञ्चकात्तस्मिन्नपनीते शेषे चतुष्करूपे पतद्ग्रहे ता दश प्रकृतयः संक्रामन्ति, ताथ तावद्यावत्समयोनमा| वलिकाद्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मानद्विके उपशान्ते शेषा अष्टौ प्रकृतयश्चतुष्करूपे एव पतद्ग्रहे संक्रामन्ति । ततः संज्वलनमाने उपशान्ते सप्त, ताश्च सप्त चतुष्करूपे पतद्ग्रहेऽन्तर्मुहूर्त कालं यावत्संक्रामन्ति । ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनमायाऽपि पतद्ग्रहो न भवतीति चतुष्कात्तस्यामपगतायां शेषे त्रिकरूपे पतद्ग्रहे पूर्वोक्ताः सप्त संक्रामन्ति, ताथ तावद्यावत् समयोनमावलिकाद्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाद्विके उपशान्ते शेषाः पञ्च प्रकृतयस्त्रिकरूपे पतग्रहे संक्रामन्ति, ताथं तावद्यावत्समयोनमावलिकाद्विकम् । ततः संज्वलनमायायामुपशान्तायां शेषाश्चतस्रः प्रकृतयः संक्रामन्ति, ताश्च तावद्यावदन्तर्मुहूर्तम् । ततोऽनिवृत्तिबादरसं परायचरमसमयेऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे लोभद्विके उपशान्ते शेषे द्वे प्रकृती संक्रामतः, ते च मिथ्यात्व सम्यग्मिथ्यात्व लक्षणे । अप्रत्याख्यानप्रत्याख्यानावरणलक्षणे लोभद्विके उपशान्ते शेषे द्वे प्रकृती संक्रामतः, ते च मिथ्यात्वसम्यग्मिथ्यात्वलक्षणे । न चैते संज्वलनलो मे संक्रामतः, दर्शनमोहनीयचारित्रमोहनीययोः परस्परं संक्रमाभावात् ततस्तस्यापि पतद्ग्रहता न भवतीति द्वयोरेव ते द्वे संक्रामतः । तत्र मिध्यात्वं सम्यक्त्वसम्यग्मिध्यात्वयोः, सम्यग्मिथ्यात्वं सम्यक्त्वे । तदेवमौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां संक्रमपतद्ग्रहविधिरुक्तः । " संप्रति क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां संक्रमपतद्ग्रहविधिरुच्यते — तत्रानन्तानुबन्धिचतुष्टयदर्शनत्रिकरूपे सप्तके क्षपिते सति एक| विंशतिसत्कर्मा सन् क्षायिकसम्यग्दृष्टिरुपशमश्रेणिं प्रतिपद्यते । तस्य चान्तर्मुहूर्तं कालं यावत्पुरुषवेदसंज्वलनचतुष्टयरूपे पञ्चकपतग्रहे एकविंशतिः संक्रामति । ततोऽन्तरकरणे कृते सति संज्वलनलोभस्य संक्रमो न भवतीति एकविंशतेस्तस्मिन्नपनीते शेषा विंशतिः पञ्चक
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy