SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥२३॥ 44 शरूपेषु पतद्ग्रहेषु संक्रामति । ततः सम्यग्मिथ्यात्वे क्षपिते सति सम्यक्त्वस्य न संक्रमो नापि पतद्ग्रह इत्येकविंशतिरविरतादीनां यथासंख्यं सप्तदशत्रयोदशनवकरूपेषु पतद्ग्रहेषु संक्रामति । सम्प्रत्यौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य संक्रममाश्रित्य - पतद्ग्रहविधिरुच्यते चतुर्विंशतिसत्कर्मणः सम्यक्त्वं मिध्यात्वसम्यग्मिथ्यात्वयोः पतद्ग्रह एवेति कृत्वा तस्मिन्नपसारिते शेषा त्रयोविंशतिः पुंवेदसंज्वलनचतुष्टयसम्यक्त्वसम्यग्मिथ्यात्वरूपे सप्तकपतद्ग्रहे संक्रामति । तस्यैवोपशमश्रेण्यां वर्तमानस्यान्तरकरणे | कृते संज्वलनलोभस्य संक्रमो न भवतीति तस्मिन्नपसारिते शेषा द्वारिंशतिः पूर्वोक्त एव सप्तकपतद्ग्रहे संक्रामति । तस्यैव नपुंसक| वेदे उपशान्ते सप्तकपतग्रहे एकविंशतिः । ततस्त्रीवेदे उपशान्ते विंशतिः । ततः पुरुषवेदस्य प्रथमस्थितौ समयोनावलिकाद्विकशेषायां 'दुसु आवलियास पढमठिईसु सेसासुऽवि य वेदो" इति वचनात् पुरुषवेदः पतग्रहो न भवति, ततः प्रागुक्तात् सप्तकात्पुरुषवेदेऽपनीते शेषे षट्करूपे पतद्ग्रहे प्रागुक्ता विंशतिः संक्रामति । ततः षट्सु नोकषायेषूपशान्तेषु शेषाचतुर्दश प्रकृतयः प्रागुक्त एव षट्करूपे पतद्महे संक्रामन्ति, ताश्च तावत्संक्रामन्ति यावत्समयोनमावलिकाद्विकम् । ततः पुरुषवेदे उपशान्ते शेषास्त्रयोदश षट्करूपे पतग्रहे संक्रामन्ति, ताथ तत्र तावद्यावदन्तर्मुहूर्तम् । ततः संज्वलनक्रोधस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनक्रोधोऽपि "तिसु आवलियासु समऊणियासु अपडिग्गहा उ संजलणा " इति वचनात् पतद्ग्रहो न भवतीति प्रागुक्तात् षट्कात्तस्मिन्नपसारिते | शेषे पञ्चकरूपे पतग्रहे ता एव त्रयोदश प्रकृतयः संक्रामन्ति । ततोऽप्रत्याख्यानप्रत्याख्यानावरण क्रोधाद्विक उपशान्ते शेषा एकादश प्रागुक्त एव पञ्चकपतद्ग्रहे संक्रामन्ति, ताथ तावद्यावत्समयोनावलिकाद्विकम् । ततः संज्वलनकोधे उपशान्ते शेषा दश प्रकृतयस्तस्मिन्नेव पञ्चकपतद्ग्रहे तावत्संक्रामन्ति यावदन्तर्मुहूर्तम् । ततः संज्वलनमानस्य प्रथमस्थितौ समयोनावलिकात्रिकशेपायां संज्वलनमा संक्रमकरणे प्रकृतिसंक्रमः । ॥२३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy