SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ मिथ्यात्ववर्जिताः शेषास्त्रयोविंशतिप्रकृतयः प्रागुक्तायां द्वाविंशती संक्रामन्ति । तदेवं मिथ्यादृष्टेद्वाविंशतिपतद्हे सप्तविंशतिषविंशतित्रयोविंशतिसंक्रमाः । एकविंशतिपतगृहे च पञ्चविंशतिसंक्रम उक्तः, शेषः संक्रमः पतगृहो वा न संभवति । सासादनसम्यग्दृष्टस्तु शुद्धदृष्टित्वाभावाद्दर्शनमोहनीयत्रयस्य संक्रमाभावः, ततोऽस्य सर्वदा एकविंशतिरूपे पतगृहे पञ्चविंशतिरेव संक्रामति । सम्यग्मिध्यादृष्टेरपि शुद्धदृष्टित्वाभावाद्दर्शनत्रयस्य संक्रमाभाव इति अष्टाविंशतिसत्कर्मणः सप्तविंशतिसत्कर्मणो वा पञ्चविंशतिः संक्रामति । चतुर्विशतिसत्कर्मणः पुनरेकविंशतिः द्वादशकषायपुरुषवेदभयजुगुप्साऽन्यतरयुगललक्षणसप्तदशप्रकृतिसमुदायरूपे पतगृहे संक्रामति । तदेवमुक्तौ सासादनसम्यग्मिथ्यादृष्टी। सम्प्रत्यविरतदेशपिरतप्रमत्ताप्रमत्तेषु संक्रमाणां तुल्यत्वात् युगपत्पतगृहा उच्यन्ते तत्रैतेषामविरतादीनामौपशमिकसम्यग्दृष्टीनां सम्यक्त्वलाभप्रथमयादारभ्य यावदावलिकामानंतावत् सम्यक्त्वसम्यग्मिथ्यात्वयोः पतगृहतैव भवति, न संक्रमः, इति शेषा षड्विंशतिरविरतानां द्वादशकषायपुरुषवेदभयजुगुप्साऽन्यतरयुगलसम्यक्त्वसम्यग्मिथ्यात्वरूपे एकोनविंशतिपतगृहे, देशविरतानां प्रत्याख्यानावरणसंज्वलनकषायपुरुषवेदभयजुगुप्साऽन्यतरयुगलसम्यक्त्वसम्यग्मिथ्यात्वलक्षणे पञ्चदशपतगृहे, | प्रमत्ताप्रमत्तानां संज्वलनचतुष्टयपुरुषवेदसम्यक्त्वसम्यग्मिथ्यात्वभयजुगुप्साऽन्यतरयुगलरूपे एकादशपतगृहे संक्रामति । तेषामेवाविरतसम्यग्दृष्टयादीनामावलिकायाः परतः सम्यक्त्वं संक्रमे पतगृहे च लभ्यते इति सप्तविंशतिः प्रागुक्तेषु त्रिषु पतगृहेषु संक्रामति । तथा तेषामेवाविरतसम्यग्दृष्टयादीनामनन्तानुबन्धिषूद्वलितेषु चतुर्विंशतिसत्कर्मणां क्षायोपशमिकसम्यग्दृष्टीनां सम्यक्त्वं पतद्ग्रह इति कृत्वा शेषाः त्रयोविंशतिः प्रागुक्तेष्वेवैकोनविंशत्यादिषु त्रिषु पतद्ग्रहेषु संक्रामति । ततो मिथ्यात्वे क्षपिते सति सम्यग्मिथ्यात्वं पतद्ग्रहभावे न लभ्यते, मिथ्यात्वं च संक्रमे न लभ्यते, ततः शेषा द्वाविंशतिरविरतदेशविरतसंयतानां यथासंख्यमष्टादशचतुर्दशद
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy