________________
मन्ति । ततः पुरुषवेदे उपशान्ते एकादश, क्षपकस्य वा प्रागुक्ताभ्यो द्वादशभ्यो नपुंसकवेदे क्षीणेऽवशिष्टा एकादश संक्रामन्ति यद्वापशांमकसम्यग्दृष्टेरुपशमश्रेण्यां प्रागुक्ताभ्यस्त्रयोदशभ्यो नपुंसकवेदे क्षीणेऽवशिष्टा एकादश संक्रामन्ति यद्वौपशमिकसम्यग्दृष्टे रुपशम श्रेण्यां प्रागुक्ताभ्यस्त्रयोदशभ्योऽप्रत्याख्यानप्रत्याख्यानावरणक्रोधाद्वि के उपशान्ते एकादश संक्रामन्ति । क्षपक श्रेण्यामेकादशभ्यः स्त्रीवेदे क्षीणे शेषा दश संक्रामन्ति, औपशमिकसम्यग्दृष्टेर्वा उपशमश्रेण्यां वर्तमानस्यैकादशभ्यः संज्वलनक्रोधे उपशान्ते शेषा दश संक्रामन्ति । क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्य एकादशभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणक्रोधद्वये उपशान्ते नव संक्रामन्ति । तस्यैव संज्वलने क्रोधेऽप्युपशान्तेऽष्टौ यद्वौपशमिकसम्यग्दृष्टे रुपशमश्रेणीस्थस्य प्रागुक्ताभ्यो दशभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणमानद्वये उपशान्तेऽष्टौ संक्रामन्ति । तस्यैव संज्वलनमाने उपशान्ते सप्त । क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्योऽष्टाभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणमानद्वये उपशान्ते षट् । तस्यैव संज्वलनमाने उपशान्ते पञ्च यद्वौपशमिकसम्यग्दृष्टेरुपशमश्रेणीस्थस्य प्रागुक्ताभ्यः सप्तप्रकृतिभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणमायाद्विके उपशान्ते पञ्च । तस्यैव संज्वलनमायायामुपशान्तायां चतस्रः, यद्वा क्षायिकसम्यग्दृष्टेः क्षपकस्य प्रागुक्ताभ्यो दशभ्यो नोकषायपदकक्षये शेषाश्चतस्रः प्रकृतयः संक्रामन्ति । तस्यैव ! वेदे क्षीणे तिस्रः, अथवा क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यः पञ्चभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणमायाद्विके उपशान्ते शेषास्तिस्रः संक्रामन्ति । तस्यैव संज्वलनमायायामुपशान्तायां द्वे, अथवोपशमिकसम्यदृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यश्चतसृभ्यः प्रकृतिभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणलोभद्विके उपशान्ते शेषे द्वे प्रकृती संक्रामतः, यद्वा क्षायिकसम्यदृष्टेः क्षपकस्य प्रागुक्ताभ्यस्तिसृभ्यः संज्वलनक्रोधे क्षीणे द्वे संक्रामतः । तस्यैव संज्वलनमाने क्षीणे एका । तदेवं भावितानि त्रयोविं
पुरुष
Sha