SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१७॥ Sid ध्यात्वेऽप्यपसारिते षड्विंशतिः संक्रामति, चतुर्विंशतिस्तु संक्रमे न प्राप्यते, चतुर्विंशतिसत्कर्मणः सम्यग्दृष्टेमिथ्यात्वं गतस्य तत्प्रत्ययेन भूयोऽप्यनन्तानुवन्धिना बन्धेन लब्धसत्ताकानामपि बन्धावलिकागतस्य सकलकरणायोग्यत्वेन संक्रमाभावात् , मिथ्यात्वस्य च संक्रमकरणे सम्यक्त्वसम्यग्मिथ्यात्वयोः पतगृहत्वेनापसारणे त्रयोविंशतेरेख संक्रमः परिशेषात् । अथवा चतुर्विंशतिसत्कर्मणः सम्यग्दृष्टेः सम्यक्त्वं प्रकृतिसं क्रमः। मिथ्यात्वसम्यग्मिथ्यात्वयोः पतद्ह इति तदपसारणे शेषास्त्रयोविंशतिः संक्रामन्ति । तस्यैव मिथ्यात्वे क्षपिते द्वाविंशतिः। अथवोपशमश्रेणीस्थस्यौपशमिकसम्यग्दृष्टेश्चारित्रमोहनीयस्यान्तरकरणे कृते पुवेदसंज्वलनचतुष्टययोरानुपूर्व्या संक्रमाभिधानात्संज्वलनलोभस्य, अनन्तानुबन्धिचतुष्टयस्य च विसंयोजितत्वादुपशान्तत्वाद्वा संक्रमाभावात् सम्यक्त्वस्य च मिथ्यात्वसम्यग्मिथ्यात्वयोः पतगृहत्वेन त्यागात् संज्वलनलोभानन्तानुबन्धिचतुष्टयसम्यक्त्वेष्वष्टाविंशतेरपनीतेषु द्वाविंशतिः संक्रामति, तस्यैव नपुंसकवेदे उपशान्ते एकविंशतिः, | द्वाविंशतिसत्कर्मणो वा सम्यक्त्वं स्थानाभावान वापि संक्रामतीत्येकविंशतिः । यद्वा क्षपक श्रेण्यां वर्तमानस्य क्षपकस्य यावदष्टानां | कषायाणां न क्षयस्तावदेकविंशतिः संक्रमे प्राप्यते । औपशमिकसम्यग्दृष्टेः प्रागुक्ताया एकविंशतेमध्यात् स्त्रीवेदे उपशान्ते शेषा विंशतिः | संक्रामति । यद्वा क्षायिकसम्यग्दृष्टरुपशमश्रेणी प्रतिपन्नस्य चारित्रमोहनीयस्यान्तरकरणे कृते संज्वलनलोभस्योक्तयुक्त्या संक्रमाभावादेव | विंशतिः संक्रमे लभ्यते । ततो नपुंसकवेदे उपशान्ते एकोनविंशतिः, स्त्रीवेदे चोपशान्तेऽष्टादश । औपशमिकसम्यग्दृष्टरुपशमश्रेण्यांY वर्तमानस्य प्रागुक्ताया विंशतेः षट्सु नोकषायेधूपशान्तेषु शेषाश्चतुर्दश संक्रामन्ति । ततः पुरुषवेदे उपशान्ते त्रयोदश । यद्वा क्षपकश्रे-13 णीस्थस्य क्षपकस्य सम्बन्धिन्या एकविंशतेः कषायाष्टकक्षये त्रयोदश । तस्यैव क्षपकस्य चारित्रमोहनीयस्यान्तरकरणे कृते संज्वलनलोभस्य ला॥१७॥ संक्रमाभावात् द्वादश, अथवा क्षायिकसम्यग्दृष्टेरुपशमश्रेण्या वर्तमानस्य प्रागुक्ताभ्योऽष्टादशभ्यो नोकषायषट्के उपशान्ते द्वादश संक्रा
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy