SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ (उ०)-मोहनीये पश्चदश सत्तास्थानानि-अष्टाविंशतिः सप्तविंशतिः पर्विंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिः त्रयोदश द्वादश एकादश पञ्च चतस्रः तिस्रः द्वे एका चेति । तत्राष्टाविंशतिश्चतुर्विंशतिश्च सत्तास्थानेऽभिहितेऽपि संक्रमे न | प्राप्यते, ततः सत्तास्थानमध्ये तवयं सप्तदशषोडशपंचदशस्थानानि च वर्जयित्वैकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवदशकैकादशद्वादशत्रयोदशचतुर्दशाष्टादर्शकोनविंशतिविंशत्येकविंशतिद्वाविंशतित्रयोविंशतिपञ्चविंशतिषड्विंशतिसप्तविंशतिलक्षणानि त्रयोविंशतिसंख्यानि संक्रमस्थानानि भवन्ति । तथाहि-अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्ग्रह इति मिथ्यात्वव्यतिरिक्ताः शेषाः सप्तविंशतिः संक्रामन्ति । तत्र चारित्रमोहनीयं पञ्चविंशतिप्रकृत्यात्मकं परस्परं संक्रामति । सम्यक्त्वसम्यग्मिथ्यात्वे च मिथ्यात्वे । तथा सम्यक्त्वे उद्वलिते सप्तविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं विना पड्विंशतिः संक्रामन्ति, मिथ्यात्वं सम्यग्मिथ्यात्वस्य पतद्ग्रह इति तत्यज्यते । सम्यग्मिथ्यात्वेऽप्युद्वलिते पड्विंशतिसत्कर्मणः पञ्चविंशतिः, अथवाऽनादिमिथ्यादृष्टेः षड्विंशतिसत्कर्मणः पञ्चविंशतिः, मिथ्यात्वस्य स्थानाभावेन संक्रमाभावात् । अथवापशमिकसम्यग्दृष्टेरष्टाविंशतिसत्कर्मणः सम्यक्त्वलाभादावलिकाया ऊर्ध्व वर्तमानस्य सम्यक्त्वं मिथ्यात्वसम्यग्मिथ्यात्वयोः पतद्ग्रहः, तेन सम्यक्त्वे पतद्ग्रहीभृतत्वेन त्यक्ते शेषा सप्तविंशतिः संक्रमे प्राप्यते । तस्यैव चौपशमिकसम्यग्दृष्टेरष्टाविंशतिसत्कर्मण आवलिकाया अभ्यन्तरे वर्तमानस्य सम्यग्मिथ्यात्वं सम्यक्त्वे न संक्रामति, यतो मिथ्यात्वपुद्गला एव सम्यक्त्वानुगतविशोधिप्रभावेण सम्यग्मिथ्यात्वलक्षणं परिणामान्तरमापादिताः, स च परिणामविशेषोत्र संक्रमः, अन्यप्रकृतिरूपतया परिणामान्तरापादनस्यैव संक्रमलक्षणत्वात् । संक्रमावलिकागतं च सकलकरणायोग्यमिति सम्यक्त्वलाभादावलिकाया अभ्यन्तरे वर्तमानेन सम्यग्मिथ्यात्वं सम्यक्त्वे न संक्रम्पते, किंतु केवलं मिथ्यात्वमेव । ततः सम्यग्मि
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy