________________
कर्मप्रकृतिः
॥१६॥
saan कोणत
प्रत्याख्यानप्रत्याख्यानावरणलक्षणे क्रोधाद्विक उपशान्ते शेषा नत्र संक्रामन्ति । तस्यैव संज्वलनक्रोधेऽप्युपशान्तेऽष्टौ । अथवोपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यो दशभ्योऽप्रत्याख्यान प्रत्याख्यानावरणलक्षणे मानद्विके उपशान्ते शेषा अष्टौ संक्राममन्ति । तस्यैव संज्वलनमाने उपशान्ते सप्त । क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्योऽष्टाभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मानद्विक उपशान्ते शेषाः षट् संक्रामन्ति । तस्यैव संज्वलनमान उपशान्ते पञ्च । यद्वौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यः प्रकृतिभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाद्विके उपशान्ते शेषाः पञ्च संक्रामन्ति । तस्यैव संज्वलनमायायामुपशान्तायां चतस्रः । अथवा क्षायिकसम्यग्दृष्टेः क्षपकस्य प्रागुक्ताभ्यो दशभ्यः पसु नोकषायेषु क्षीणेषु शेषाश्चतस्रः प्रकृतयः | संक्रामन्ति । तस्यैव पुरुषवेदे क्षीणे तिस्रः, अथवा क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यः पञ्चभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाद्विके उपशान्ते शेपास्तिस्रः संक्रामन्ति । तस्यैव संज्वलनमायायामुपशान्तायां द्वे । अथवोपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यश्चतसृभ्यः प्रकृतिभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे लोभद्विक उपशान्ते शेषे द्वे प्रकृती संक्रामतः । अथवा क्षायिकसम्यग्दृष्टेः क्षपकस्य प्रागुक्ताभ्यस्ति सृभ्यः संज्वलनक्रोधे क्षीणे द्वे संक्रामतः । तस्यैव संज्वलनमाने क्षीण एका । तदेवं परिभाव्यमानेऽष्टाविंशतिचतुर्विंशतिः सप्तदशपोडशपञ्चदशलक्षणानि संक्रमस्थानानि न प्राप्यन्ते इति प्रतिषिध्यन्ते । तेषु च प्रतिषिद्धेषु शेषाणि त्रयोविंशतिसंख्यानि संक्रमस्थानान्यवगन्तव्यानि । एतेषु संक्रमस्थानेषु मध्ये पञ्चविंशतिप्रकृत्यात्मकं संक्रमस्थानं साद्यादिरूपतया चतुष्प्रकारम्, तद्यथा - सायनादि ध्रुवमध्रुवं च । तत्राष्टात्रिंशतिसत्कर्मणः सम्यक्त्वसम्यग्मिथ्यात्वयोरुढलितयोर्भवत् सादि, अनादिमिथ्यादृष्टेरनादि, अनुवध्रुवता भव्याभव्यापेक्षया । शेषाणि तु संक्रमस्थानानि साधुवाणि, कादाचित्कत्वात् ॥ १० ॥
संक्रमकरणे प्रकृतिसं
क्रमः ।
॥१६॥