SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ SOTIOदादर शान्तत्वाद्वा संक्रमाभावः, सम्यक्त्वं च मिथ्यात्वसम्यग्मिथ्यात्वयोः पतद्ग्रह इति संज्वलनलोभानन्तानुबन्धिचतुष्टयसम्यक्त्वेष्वष्टाविंशतेरपनीतेषु शेषा द्वाविंशतिः संक्रामति । तस्यैवीपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य नपुंसकवेदे उपशान्ते एकविंशतिः । EN द्वाविंशतिसत्कर्मणो वा सम्यक्त्वं न क्वापि संक्रामतीत्येकविंशतिः संक्रमे प्राप्यते । यद्वा क्षपकश्रेण्या वर्तमानस्य क्षपकस्य यावदद्या प्यष्टौ कषाया न क्षयमुपयान्ति तावदेकविंशतिः संक्रमे प्राप्यते । औपशमिकसम्यग्दृष्टेः संबन्धिन्याः प्रागुक्ताया एकविंशतेः स्त्रीवेदे | उपशान्ते सति शेषा विंशतिः संक्रामति । यद्वा क्षायिकसम्यग्दृष्टरुपशमणि प्रतिपन्नस्य चारित्रमोहनीयस्यान्तरकरणे कृते लोभसंज्वलनस्यापि प्रागुक्तयुक्तेः संक्रमो न भवतीति तस्मिन्नपसारिते विंशतिः संक्रमे प्राप्यते । ततो नपुंसकवेदे उपशान्ते एकोनविंशतिः ।। स्त्रीवेदे उपशान्तेऽष्टादश । औपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य प्रागुक्ताया विंशतेः षट्सु नोकषायेधूपशान्तेषु शेषाश्चतुर्दश संक्रामन्ति । ततः पुरुषवेदे उपशान्ते त्रयोदश । यद्वा क्षपकस्य क्षपकश्रेण्यां वर्तमानस्य प्रागुक्ताया एकविंशतेरष्टसु कषायेषु क्षीणेषु शेषास्त्रयोदश संक्रामन्ति । तस्यैव क्षपकस्य चारित्रमोहनीयस्यान्तरकरणे कृते संज्वलनलोभस्य प्रागुक्तयुक्तेः संक्रमो न भवतीति तस्मिन्नपसारिते शेषा द्वादश संक्रामन्ति । अथवा क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्योऽष्टादशभ्यः षट्सु नोकषायेषपशान्तेषु सत्सु शेषा द्वादश संक्रामन्ति । ततः पुरुषवेद उपशान्ते एकादश । क्षपकस्य वा प्रागुक्ताभ्यो द्वादशभ्यो नपुंसकवेदे क्षीणे शेषा एकादश संक्रामन्ति । अथवौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां प्रागुक्ताभ्यस्त्रयोदशभ्योऽप्रत्याख्यानप्रत्याख्यानावरणक्रोधद्विके उपशान्ते शेषा । एकादश संक्रमे प्राप्यन्ते । क्षपकश्रेण्यामेकादशभ्यः स्त्रीवेदे क्षीणे शेषा दश संक्रामन्ति । औपशमिकसम्यग्दृष्टोपशमश्रेण्यां वर्तमानस्यैकादशभ्यः संज्वलनक्रोधे उपशान्ते शेषा दश संक्रामन्ति । क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्य एकादशभ्योऽ
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy