SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ CGCNE कर्मप्रकृतिः ॥१५॥ मिथ्यादृष्टेमिथ्यात्वं सम्यग्मिथ्यात्वस्य पतद्ग्रह इति तद्वयतिरिक्ताः शेषाः षड्विंशतिः संक्रामन्ति । सम्यग्मिथ्यात्वेऽप्युद्वलिते सति षड्विंशतिपत्कर्मणः पञ्चविंशतिः । अथवाऽनादिमिथ्यादृष्टेः षड्विंशतिसत्कर्मणः पञ्चविंशतिः, मिथ्यात्वस्य संक्रमाभावात् , न हि संक्रमकरणे तच्चारित्रमोहनीये संक्रामति, दर्शनमोहनीयचारित्रमोहनीययोः परस्परं संक्रमाभावात् । अथवीपशमिकसम्यग्दृष्टेरष्टाविंशतिसत्कर्मणः प्रकृतिसंसम्यक्त्वलाभादावलिकाया ऊचं वर्त्तमानस्य सम्यक्त्वे मिथ्यात्वसम्यग्मिथ्यात्वयोः संक्रमः, तेन तत् पतद्ग्रह इति तस्मिन्नपसा क्रमः। रिते शेषा सप्तविंशतिः संक्रमे प्राप्यते । तस्यैव चौपशमिकसम्यग्दृष्टरष्टाविंशतिसत्कर्मण आवलिकाया अभ्यन्तरे वर्तमानस्य सम्यग्मिथ्यात्वं सम्यक्त्वे न संक्रामति, यतो मिथ्यात्वपुद्गला एवं सम्यक्त्वानुगतविशोधिप्रभावतः सम्यग्मिथ्यात्वलक्षणं परिणामान्तरमापादिताः, अन्यप्रकृतिरूपतया परिणामान्तरापादनं च संक्रमः, संक्रमावलिकागतं च सकलकरणायोग्यमिति सम्यक्त्वलाभादावलिकाया अभ्यन्तरे वर्तमानेन सम्यग्मिथ्यात्वं सम्यक्त्वे न संक्रम्यते, किंतु केवलं मिथ्यात्वमेव, ततः सम्यग्मिथ्यात्वेऽप्यपसारिते । शेषा पर्विशतिः संक्रामति, चतुर्विंशतिस्तु संक्रमे न प्राप्यते, यतश्चतुर्विंशतिसत्कर्मा सम्यग्दृष्टिमिथ्यात्वं गतः सन् यद्यप्यनन्तानुबन्धिनो भूयोऽपि बध्नाति, तथापि तान् सतोऽपि न संक्रमयति, बन्धावलिकागतस्य सर्वकरणायोग्यत्वात् , मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः पतग्रह इति तस्मिन्नपसारित शेषा त्रयोविंशतिरेव संक्रामति । अथवा चतुर्विंशतिसत्कर्मणः सम्यग्दृष्टेः सम्यक्त्वं मिथ्यात्वसम्यग्मिथ्यात्वयोः पतग्रह इति तस्मिन्नपसारिते शेषा त्रयोविंशतिः संक्रामति । तस्यैव मिथ्यात्वे क्षपिते द्वाविंशतिः ॥१५॥ थी अथवोपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य चारित्रमोहनीयस्यान्तरकरणे कृते सति लोभसंज्वलनस्यापि संक्रमो न भवति, 'अ-16 न्तरकरणे कृते पुरुषवेदसंज्वलनचतुष्टययोरानुपूर्व्या संक्रमो भवति' इतिवचनप्रामाण्यात् अनन्तानुबन्धिचतुष्टयस्य च विसंयोजितत्वादुप-17
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy