SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ रूपे पतगृहे मिथ्यादृष्टयः सासादनाश्च नवविधदर्शनावरणीयबन्धका नवकमपि संक्रमयन्ति । अयं च नवकरूपः पतद्ग्रहः साचादिरूपतया 1 कर्मप्रकृतिः | चतुष्पकारः, तद्यथा-सादिग्नादिर्धवोऽध्रुवश्च । तथाहि-सम्यग्मिथ्यादृष्टयादिगुणस्थानेषु न भवति, ततः प्रतिपाते च भवति, ततोऽसौ १८ संक्रमकरणे | सादिः, अत्यक्तमिथ्यात्वस्यानादिः, ध्रुवाधुवावमव्यभव्यापेक्षया। तथा सम्यग्मिथ्यादृष्टिगुणस्थानकादारभ्यापूर्वकरणस्य सङ्खयेयतमं भागं प्रकृतिसं॥१२॥ | यावन्नवविधदर्शनावरणीयसत्कर्माणः पविधदर्शनावरणीयबन्धकाः षट्के नवकं संक्रमयन्ति । अयं षट्करूपपतद्ग्रहः कादाचित्क क्रमः। त्वात्साद्यध्रुवः । तथाऽपूर्वकरणस्य सङ्खयेयतमे भागे निद्राप्रचलयोर्बन्धव्यवच्छेदे तत ऊर्ध्व सूक्ष्मसंपरायचरमसमयं यावदुपशमश्रेण्यां नवविधदर्शनावरणीयसत्कर्माणश्चतुर्विधदर्शनावरणीयबन्धकाश्चतुष्के नवकं संक्रमयन्ति । अयमपि चतुष्करूपः पतद्ग्रहः साद्यधुवः, कादाचित्कत्वात् । एतत्पतद्ग्रहत्रिकप्रतियोगी नवकरूपः संक्रमः साद्यादिभेदेन चतुर्विधः, सूक्ष्मसंपरायात्परत उपशान्तमोहे न भवति, | ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवावभव्यभव्यापेक्षया । क्षपकश्रेण्यां पुनरनिवृत्तिकरणाद्धायाः ॐ सङ्ख्थेयतमे भागेऽवशिष्टे सति स्त्यानिित्रकक्षयात्परतः सूक्ष्मसंपरायचरमसमयं यावत् षड्विधदर्शनावरणीयसत्कर्माणश्चक्षुरादिदर्शनाव रणीयचतुष्टयं बघ्नन्तस्तस्मिन् दर्शनावरणचतुष्के पदकं संक्रमयन्ति । इमावपि संक्रमपतद्ग्रही कादाचित्कत्वात्साद्यध्रुवौ । अतः | परं तु न संक्रमो नापि पतद्ग्रहत्वं, बन्धाभावात् । अत एव चतुष्करूपं तृतीयमपि संक्रमस्थानं न लभ्यते । वेदनीये गोत्रे चान्यतरस्यां | प्रकृतौ बध्यमानायामन्यतराऽवध्यमाना प्रकृतिः संक्रामति । तेन या यत्र संक्रामति सा तस्याः पतगृहः, इतरा च संक्रमस्थानम् । ॥ १२॥ | तत्र मिध्यादृष्टयादिसूक्ष्मसंपरायान्तानां सातबन्धकानां सातासातसत्कर्मणां सातवेदनीयं पतद्ग्रहः, असातं संक्रमस्थानं । असातबन्ध|| कानां तु मिथ्यादृष्टयादीनां प्रमत्तान्तानां सातासातसत्कर्मणामसातवेदनीयं पतद्ग्रहः, सातवेदनीयं तु संक्रमस्थानम् । इमौ च साता-||
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy