SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥६॥ वगन्तव्यः । सातासात वेदनीयनीचैर्गोत्राणां तु परावर्तमानत्वात्, मिथ्यात्वस्य पुनः संक्रमो विशुद्धसम्यग्दृष्टेः, विशुद्धसम्यग्दृष्टित्वं च कादाचित्कम्, ततस्तस्यापि संक्रमः साद्यध्रुव एव ॥ ६॥ ( उ० ) सम्प्रतिसाद्यनादिप्ररूपणामाह – सम्यक्त्वसम्यग्मिथ्यात्वनरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहार कसप्तकतीर्थकरो| च्चैर्गोत्रलक्षणाश्चतुर्विंशतिप्रकृतयोऽध्रुवसत्ताका आयुश्चतुष्टयं च । शेषं पुनस्त्रिंशदुत्तरं प्रकृतिशतं ध्रुवसत्कर्म । ततोऽपि सातासातवेदनीयनीचैर्गोत्रमिथ्यात्वरूपं प्रकृतिचतुष्टयमपसार्यते, ततोऽवशिष्टाः सर्वा ध्रुवसत्कर्मप्रकृतयः षट्विंशत्युत्तरशतसङ्ख्याः संक्रममधिकृत्य | साद्यादिरूपतया चतुर्विधा अपि भवन्ति । तथाहि अमृषां ध्रुवसत्कर्मप्रकृतीनां संक्रमविषयप्रकृतिबन्धव्यवच्छेदे सति संक्रमो न भवति, ततः पुनरपि तासां संक्रमविषयप्रकृतीनां स्वबन्धहेतु संपर्कतो बन्धारम्भे सति भवति, ततोऽसौ सादिः, तत्तद्बन्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः अभव्यस्य ध्रुवः कदाचिदपि व्यवच्छेदाभावात्, भव्यस्य पुनरध्रुवः, कालान्तरे व्यवच्छेदसंभवाद् । शेषाश्वतुर्विंशतिरध्रुवसत्कर्मप्रकृतयः मिथ्यात्व वेदनीयनीचैगोत्रैः सह संक्रममाश्रित्य साद्यध्रुवा अवगन्तव्याः । तथाहि-अध्रुवसत्कर्मणामध्रुवसत्कर्मत्वादेव संक्रमः साद्यध्रुवोऽवगन्तव्यः, सातासातवेदनीयनीचैगोंत्राणां तु परावर्तमानत्वात् । तथाहि - साते बध्यमानेऽसातस्य संक्रमः, असाते च बध्यमाने सातस्य, नान्यदा, तथोच्चगोत्रे बध्यमाने नीचैर्गोत्रस्य संक्रमः, नीचैर्गोत्रे च बध्यमाने उच्चैर्गोत्रस्य, | तत एषां संक्रमः सादिरध्रुवश्चेति । मिथ्यात्वस्य संक्रमो विशुद्धसम्यग्दृष्टेर्भवति, विशुद्धसम्यग्दृष्टित्वं च कादाचित्कम्, ततस्तस्य संक्रमः साद्यध्रुव एवेति । स्यादेतत्, कासां प्रकृतीनां किं संक्रमपर्यवसानस्थानं येन तत ऊर्ध्वमभवन् प्रतिपाते च पुनरपि भवन् संक्रमः सुज्ञानः स्यात् ? Caraca संक्रमकणे प्रकृतिसं-र क्रमः । ॥६॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy