SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ उच्यते सातवेदनीयस्य संक्रमका मिथ्यादृष्ट्यादयः प्रमत्तपर्यवसाना ज्ञेयाः, न परे, परतो ह्यसातवेदनीयं न बध्यते, किंतु सात वेदनीयमेव, ततोऽसातस्यैव साते बध्यमाने संक्रमो भवति, न सातस्येति । अनन्तानुबन्धिनां मिथ्यादृष्ट्यादयोऽप्रमत्तसंयतपर्यवसानाः संक्रमकाः, न परे, परतस्तेषामुपशान्तत्वेन क्षीणत्वेन वा संक्रमस्याभावात् । यशः कीर्तेर्मिथ्यादृष्ट्यादयोऽपूर्वकरणान्ताः संक्र| मका भवन्ति, न परे, परतस्तस्या केवलाया एव बन्धेन पतग्रहत्वस्यैव भावात् । अनन्तानुबन्धिवर्ज द्वादशकपायनोकपायाणां मिध्यादृष्टयादयो निवृत्तिबाद रसंपरायपर्यवसानाः संक्रमकाः, परतस्तेषामुपशान्तत्वेन क्षीणत्वेन वा संक्रमाभावात् । मिथ्यात्वसम्यग्मिथ्यात्वयोरविरतसम्यग्दृष्ट्यादय उपशान्तमोहपर्यवसानाः संक्रमकाः, न परे, परतस्तयोः सत्ताया एवाभावात् । सासादनाः सम्यग्मिथ्यादृष्टयश्च न किमपि दर्शनमोहनीयं क्वापि संक्रमयन्ति । मिथ्यादृष्टिस्तु मिथ्यात्वं खाधारभूतं स्वभावादेव न संक्रमयतीत्यविरतसम्यग्दृष्ट्यादय इत्युक्तम् । सम्यग्मिथ्यात्वस्य पुनर्मिथ्यादृष्टिरपि संक्रमको भवति । तथा सम्यक्त्वस्य मिथ्यादृष्टिरेव संक्रमकः, नान्यः, यतः सम्यक्त्वं मिध्यात्वे वर्तमानः संक्रमयति, न सासादने मिश्रे वा, मिध्यात्वे च वर्तमानो मिध्यादृष्टिरेव । तथोच्चैर्गोत्रस्य मिध्यादृष्टिसासादना एव संक्रमकाः, नान्ये, अन्येषां नीचैर्गोत्राबन्धकत्वात्, नीचैर्गोत्रबन्धकाल एव च तत्संक्रमाभ्युपगमात् । उक्तशेषाणां च मतिज्ञानावरणीयादिप्रकृतीनां सूक्ष्मसंपरायपर्यवसानानां मिथ्यादृष्ट्यादयः संक्रमकाः, न परे, परतो बन्धाभावेन पतद्ग्रहप्रकृत्यभावात् ॥ ६ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy