________________
कर्मप्रकृतिः ॥५॥
ग्रह इति सामान्यातिप्रसक्तावपवादमाह अन्तरकरणे कृते प्रथमस्थितौ तिसृष्वावलिकासु समयोनासु सतीषु चत्वारोऽपि संज्वलना अपतद्ग्रहाः, अन्तरकरणे कृते प्रथमस्थितौ समयोनावलिकात्रिकशेषायां सत्यां वध्यमानेष्वपि संज्वलनेषु प्रकृत्यन्तरदलिकं न संक्रामति, | तेन ते तदानीं पतद्ग्रहा न भवन्तीत्यर्थः । तथान्तरकरणे कृते सति द्वयोरावलिकयोः ( समयोनयोः ) प्रथमस्थितिसत्कयोः सत्योर्वेदःपुरुषवेद: पतद्ग्रहो न भवति, न किमपि तत्र प्रकृत्यन्तरदलिकं संक्रामतीत्यर्थः । खीनपुंसकवेदयोस्तदानीं बन्धाभावादेवापतद्ग्रहत्वसिद्धेवेदशब्देनेह पुंवेद एव गृह्यते । अपि च मिथ्यात्वे क्षपिते सति सम्यग्मिथ्यात्वस्य पतद्ग्रहता न भवति, मिश्र हि मिथ्यात्वदलिकमेव संक्रामति नान्यत्, तच्च मिथ्यात्वं क्षीणम्, ततः संक्रम्यमाणदलिकाभावात्तत्रापतद्ग्रहत्वसिद्धिरिति । तथा मिध्यात्वसम्यग्मिथ्यात्वयोः क्षपितयोः सम्यक्त्वस्य न पतद्ग्रहता, सम्यक्त्वे मिथ्यात्वसम्यग्मिथ्यात्वयोरेव संक्रमसंभवात्, तदुभयक्षये संक्रम्यमाणप्रकृत्यसंभवेन पतद्ग्रहत्वायोगात् । तथा सम्यक्त्वसम्यग्मिथ्यात्वयोरुद्वलित यो मिथ्यात्वस्य न पतद्ग्रहता । मिध्यात्वे हि सम्यक्त्वं सम्यस्मिथ्यात्वं वा संक्रामति, न चारित्रमोहनीयमपि, दर्शनमोहनीयचारित्रमोहनी ययोः परस्परं संक्रमप्रतिषेधात् । सम्यक्त्वसम्यग्मिथ्यात्वे चोद्वलिते इति संक्रमाभावादपतद्ग्रहतेत्येतत्सर्वमनुक्तमपि पञ्चसंग्रहाद् द्रष्टव्यम् ||५॥
इयाणिं सादिणादिपरूवणा कायव्वत्ति तत्थ आह
साइ अणाइ ध्रुव अधुवा य सव्वधुवसंतकम्माणं । साइ अधुवा य सेसा मिच्छा वेयणियनीएहिं ॥ ६ ॥
(०) - सम्मत्त सम्मामिच्छत्तणिरयगतिमणुयगतिदेवगति, एयासं चैवाणुपुत्र्वीउ वेउच्चिय (आहारग) सत्तगं, तित्थगरं, उच्चागोयं ति, (सेसत्ति) पयाओ चउवीसं अधुवसंतातो य पगतीउ सेसाउ आउगवजातो तीसुत्तरं
संक्रमकरणे प्रकृतिसंक्रमः ।
॥५॥