________________
बन्धगर्भितमेकमलक्षणस्यैवाभावादित्यर्थः ||४||
वा संक्रमोऽध्वगन्तव्यः । किं सर्वदेव ? नेत्याह बन्धे बन्धकाले, न त्वन्यदा बन्धाभावे सव्वत्थ बंधे पडिग्गहत्ते पसत्ते यत्र नेष्यते तत्र प्रतिषेधार्थ नियमार्थ चाहतिसु आचलियासु समयूणिगासु अपडिग्गहाउ संजलणा। दुसु आलियासु पढमद्विती सेसासु वि य वेदो ॥ ५॥ (०) - चउन्हे संजलणाणं समयुगतियावलियसेसा पदमट्टितीए बज्झमाणाणं पि अपदिग्यहतं । ममदु आवलिय से साए पुरिसवेदस्स अपडिग्गहत्तं, न संसवेदाणं । किं कारणं ? तेर्सि बंधी चैव शत्थि ॥१५॥
(मलय०)———तदेवं संक्रमस्य सामान्यलक्षणविधिरपवादो नियमश्वोक्तः । संप्रति यदुक्तं यस्य प्रकृतेर्बन्धः सा प्रकृत्यन्तरदलिकसंक्रमणं प्रति पतङ्ग्रह इति, तत्रापवादमाह--'तिसु' ति - अन्तरकरणे कृते प्रथमस्थितौ तिसृष्वावलिकासु समयोनासु सतीषु चत्वारोऽपि संज्वलना अपतग्रहाः पतग्रहा न भवन्ति । एतदुक्तं भवति चतुर्ष्वपि संज्वलनेषु प्रथमस्थितौ 'तिसृष्वावलिकासु' - समयोनावलिकात्रिकशेषायां | सत्यां बध्यमानेष्वपि नान्यत्प्रकृत्यन्तरदलिकं तेषु संक्रामति, तेन तदानीमपतग्रहाः । तथाऽन्तरकरणे कृते सति द्वयोरावलिकयोः प्रथमस्थितिसत्कयोः समयोनयोः सत्योर्वेदः - पुरुषवेदः पतद्ग्रहो न भवति, न किमपि तत्र प्रकृत्यन्तरदलिकं संक्रामतीत्यर्थः । वेदवेह पुरुषवेद एव द्रष्टव्यः, न खीनपुंसकवेदौ, तदानीं तयोर्वन्धाभावादेव तद्ग्रहत्वसिद्धेः । अपि च मिथ्यात्वे क्षपिते सति सम्यग्मिध्यात्वस्य मिथ्यात्वसम्यग्मिथ्यात्वयोश्च क्षपितयोः सम्यक्त्वस्योद्वलितयोस्तु सम्यक्त्व सम्यग्मिथ्यात्वयोर्मिध्यात्वस्य तद्महताऽनुतापि द्रष्टव्या न खलु तत्रापि किंचित् संक्रामतीति ॥ ५ ॥
( उ० ) - तदेवं संक्रमसामान्यलक्षणविध्यपवादनियमा उक्ताः । अथ यदुक्तं यस्या प्रकृतेर्बन्धः सा प्रकृत्यन्तरदलिकसंक्रमं प्रति पत