________________
कर्मप्रकृतिः
॥४॥
POSECSDS
क्षपकश्रेण्यां पुनः कषायाष्टकक्षपणानन्तरं त्रयोदशप्रकृतीनामन्तरकरणे कृते सति 'चारित्रमोहे'-पुरुषवेदसंज्वलनचतुष्टयलक्षणे, अत्र हि चारित्रमोहनीयग्रहणेनैता एव पञ्च प्रकृतयो गृह्यन्ते, न शेषाः, बन्धाभावात् । तत्र आनुपूर्ध्या-परिपाटया संक्रमणं भवति, न त्वना- 7 संक्रमकरणे नुपूर्ध्या । तथाहि-पुरुषवेदं संज्वलनक्रोधादावेव संक्रमयति, नान्यत्र, संज्वलनक्रोधमपि संज्वलनमानादावेव, न तु पुरुषवेदे, संज्व- प्रकृतिसलनमानमपि संज्वलनमायादावेव, न तु संज्वलनक्रोधादौ, संज्वलनमायामपि संज्वलनलोभे एव, न तु संज्वलनमानादाविति । धा
क्रमः॥ 'अन्नत्थ' त्ति-अन्तरकरणादन्यत्र पञ्चानामपि पुरुवेदादिप्रकृतीनां शेषाणां पुनः प्रकृतीनां 'सबहिं ति-सर्वस्मिन्नप्यवस्थाविशेषेऽन्तरकरणावस्थायामन्यत्र वा इत्यर्थः, सर्वैः प्रकारैः क्रमेणोत्कमेण वा संक्रमोऽवगन्तव्यः। किं सर्वदेव ? नेत्याह-'बन्धे' बन्धकाले, न ? त्वन्यदा यथोक्तं प्राक् ॥ ४॥
(उ०) तदेवमुक्तोऽनतिप्रसक्तः संक्रमविधिः । अथ क्रमोत्क्रमाविशेषेण संक्रमे प्राप्त नियममाह-अन्तरकरणविधिरग्रे वक्ष्यते ।। तत्रोपशमश्रेण्या चारित्रमोहमीयोपशमनायैकविंशतेः प्रकृतीनाम, क्षपकश्रेण्यां तु कषायाष्टकक्षपणानन्तरं त्रयोदशप्रकृतीनामन्तरकरणे कृते सति । 'चारित्रमोहे'-पुरुषवेदसंज्वलनचतुष्टयलक्षणे । अत्र शेषाणां बन्धाभावाचारित्रमोहशब्देनैता एव पश्च प्रकृतयो गृह्यन्ते । तत्रानुपूर्व्या परिपाट्या संक्रमणं भवति, न त्वनानुपूर्व्या । तथाहि-पुरुषवेदं संज्वलनक्रोधादावेव संक्रमयति, नान्यत्र, संज्वलनक्रोधमपि | संज्वलनमानादावेव, न तु पुरुषवेदे, संज्वलनमानमपि संज्वलनमायादावेव, न तु संज्वलनक्रोधादी, संज्वलनमायामपि संज्वलनलोभ एव, न तु संज्वलनमानादी, संज्वलनलोभस्त्वसंक्रान्त एव तिष्ठति । 'अन्नत्थ' ति-अन्तरकरणादन्यत्र पञ्चानामपि पुरुषवेदादिप्रकृतीनां शेषाणां पुनः प्रकृतीनां 'सव्वहि' ति-सर्वस्मिन्नप्यवस्थाविशेषेऽन्तरकरणावस्थायामन्यत्र वेत्यर्थः, सर्वथा-सर्वैः प्रकारैः क्रमेणोत्क्रमण
॥४
॥