________________
कर्म प्रकृतिः ।
॥३॥
चत्वार्यपि न परस्परं संक्रमयति, नापि मूलप्रकृतीः परस्परं संक्रमयति । तथाहि न ज्ञानावरणीये दर्शनावरणीयं संक्रमयति, नापि दर्शनावरणीये ज्ञानावरणीयम् एवं सर्वास्वपि मूलप्रकृतिषु भावनीयम् । अपि च यस्मिन् दर्शनमोहनीये यो जन्तुवतिष्ठते, स तदन्यत्र न संक्रमयति । यथा मिध्यादृष्टिर्मिध्यात्वम्, सम्यग्मिथ्यादृष्टिः सम्यग्मिथ्यात्वम्, सम्यग्दृष्टिः सम्यक्त्वम्, तथा सासादनाः सम्यग्मिथ्यादृष्टयश्च न किमपि दर्शनमोहनीयं क्वापि संक्रमयन्ति, अविशुद्वदृष्टित्वात् । बन्धाभावे हि दर्शनमोहनीयस्य संक्रमो विशुद्धद्दष्टेरेव भवति, नाविशुद्धदृष्टेः । अन्यच्च परप्रकृतिषु संक्रान्तं दलिकमावलिकामात्रं कालं यावदुद्वर्तनादिसकलकरणायोग्यमवगन्तव्यम् । न केवलं संक्रान्तम्, अपि तु बन्धाद्यावलिकागतमपि । तथा चाह- 'संकम' इत्यादि - संक्रमावलि कागतम्, बन्धावलिकागतम्, उदयावलिकागतम्, उद्वर्तनावलिकागतम्, आदिशब्दादुपशान्तं मोहनीयं दर्शनमोहनीयत्रिकरहितमित्येतानि सर्वाण्यप्यकरणानि -सकलकरणायोग्यान्यवसेयानि । दर्शनत्रिकं तूपशान्तमपि संक्रमयति ॥ ३ ॥
(उ०) - अथ लक्षणद्वारा सामान्यतः प्रतिपाद्यमानः संक्रमोऽतिप्रसक्त इति तत्रापवादमाह - 'मोहर्दिकस्य' - दर्शन मोहनीयचारित्र मोहनीयलक्षणस्य, तथायुषां चतुर्णामपि मूलप्रकृतीनां च ज्ञानावरणीय दर्शनावरणीयादिलक्षणानां परस्परं संक्रमो न भवति । इदमुपलक्षणम्, तेन यस्मिन् दर्शनमोहनीये यो जन्तुवतिष्ठते स तदन्यत्र न संक्रमयति, यथः मिथ्यादृष्टिर्मिथ्यात्वम्, सम्यग्मिथ्यादृष्टिः सम्यग्मिध्यात्वं सम्यग्दृष्टिः सम्यक्त्वम्, तथा सासादनाः सम्यग्मिथ्यादृष्टयश्च न किमपि दर्शन मोहनीयं क्वापि संक्रामयन्ति, अविशुद्धदृष्टित्वात्, बन्धाभावे च दर्शनमोहनीयसंक्रमस्य विशुद्धदृटेरेवागमोक्तत्वात् । तथा मिश्र सम्यक्त्वं न संक्रमयतीत्यपि द्रष्टव्यं उक्तं च- "निय नियदिट्टिन के दुइयं तया न दंसणतिगं पि । मीसम्मि न सम्मत्तं" ति । अन्यच्च परप्रकृतिषु संक्रान्तं दलिकमावलिकामात्रं कालं
संक्रमकरणे प्रकृतिसं
क्रमः ।
॥ ३ ॥